(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

रजो रागात्मकं विद्धि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०७:४३, २८ फेब्रवरी २०१७ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (== सम्बद्धाः लेखाः == using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
रजो रागात्मकं विद्धि तृष्णासङ्गसमुवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

रजः रागात्मकं विद्धि तृष्णासङ्गसमुवम् तत् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! तृष्णासङ्गसमुवं रजः रागात्मकं विद्धि । तत् कर्मसङ्गेन देहिनम् निबध्नाति ।

शब्दार्थः[सम्पादयतु]

रागात्मकम् = कामस्वरूपम्
तृष्णासङ्गसमुवम् = अभिलाषासक्तिसमुत्पन्नम्
कर्मसङ्गेन = कर्मसम्बन्धेन
देहिनम् = आत्मानम् ।

अर्थः[सम्पादयतु]

अर्जुन ! अप्राप्ते वस्तुनि अभिलाषः तृष्णा, प्राप्ते वस्तुनि अभिलाषः सङ्गः । आभ्यां यो रागः सम्भवति तदात्मकः अयं रजोगुणः । अयं च आत्मानं कर्मसु प्रवर्तयति । प्रवृत्तश्च सः तत्र बद्धो भवति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]