विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Content deleted Content added
|
|
पङ्क्तिः १२८: |
पङ्क्तिः १२८: |
|
[[zh:]] |
|
[[zh:]] |
|
[[bh:]] |
|
[[bh:]] |
|
|
|
|
|
[[वर्गः:सारमञ्जूषा योजनीया]] |
१३:११, ४ मार्च् २०१६ इत्यस्य संस्करणं
|
शिक्षा णो अस्मिन् पुरुहूत यामनि ॥
हे अत्यन्तस्तुत्य ! जीवनपथे अस्मभ्यं शिक्षणं देहि । -ऋग्वेदः ७-३२-२६
| विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्
गुरुवासरः, ०६ जून् २०२४; समयः - ०६:२३ IST
|
शिक्षा णो अस्मिन् पुरुहूत यामनि ॥
हे अत्यन्तस्तुत्य ! जीवनपथे अस्मभ्यं शिक्षणं देहि । -ऋग्वेदः ७-३२-२६
|
|
योगदर्शनं दर्शनेषु अन्यतमम्। अस्य योगशास्त्रस्य रचयिता महर्षिः पतञ्जलिः। अयं पतञ्जलिः जीवः ईश्वरश्चेति तत्वद्वयं स्वीकरोति। अतः एव अस्य दर्शनस्य "सेश्वरसांख्यदर्शनम्" इति नामान्तरम्। अस्यैव शास्त्रस्यापरं नाम "सांख्यप्रवचनम्"इति। एतद्दर्शनं पतञ्जलिना प्रणीतत्वात् "पातञ्जलदर्शनम्" इत्यपि व्यवहारयोग्यं भवति। यद्यपि पतञ्जलेः पूर्वाचार्याः हिरण्यगर्भयाज्ञवल्क्यादयः अनेके आचार्याः योगशास्त्रस्य प्रवक्तारः आसन्, अथापि जनसाधारणानां कृते पतञ्चलिरेव तं योगशास्त्रं सूत्ररुपेण ग्रन्थीकृत्य सम्यक् सरलरीत्या व्याजहार इति हेतोः अस्य योगदर्शनस्य "पातञ्जलदर्शनम्" इति नाम सयुक्तिकं तिष्ठति। ( अधिकवाचनाय »)
|
|
|
|
|
|
|
|
|
|
पार्श्वनाथः जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु त्रयोविंशतितमः तीर्थङ्करः अस्ति। भगवतः पार्श्वनाथस्य वर्णः नीलः आसीत्। जैनधर्मानुसारं भगवतः चिह्नं सर्पः अस्ति। भगवान् पार्श्वनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत्। कौमारावस्थायां पार्श्वनाथस्य शरीरस्य औन्नत्यं नव (९) हस्तमात्रात्मकम् आसीत्। भगवतः धार्मिकपरिवारे “पार्श्व” इत्याख्यः यक्षः, “पद्मावती” इत्याख्या यक्षिणी च आसीत्। ( अधिकवाचनाय »)
|
|
|
|
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः ॥
- सु.भा. - सज्जनप्रशंसा (४७/६)
गङ्गानद्यां यः स्नानं करोति तस्य पापपरिहारः भवति। गङ्गा तस्य पापं नाशयति। तथैव चन्द्रः अस्माकं तापं परिहृत्य शैत्यम् उत्पादयति। एवमेव कल्पवृक्षः अस्माभिः याचितान् सर्वान् अभिलाषान् पूरयति। एतत् जगति प्रसिद्धमेव। किन्तु गङ्गाया:, चन्द्रस्य, कल्पवृक्षस्य च एकस्मिन् एव विषये सामर्थ्यम् अस्ति। सज्जनाः महापुरुषाः तु न तथा। तेषां सहवासेन अस्माकं पापं, ताप:, दैन्यं - सर्वमपि परिहृतं भवति। तादृशं सामर्थ्यं तेषु अस्ति।
|
|
|
|
|
|