(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

बहूनि मे व्यतीतानि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०५:२२, ९ फेब्रवरी २०१७ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (→‎श्लोकः: unwated dead end, removed: {{Dead end|date=जनुवरि २०१४}} using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
श्रीभगवान् उवाच -
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन 'तानि अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

अन्वयः[सम्पादयतु]

परन्तप, अर्जुन ! बहूनि मे तव च जन्मानि व्यतीतानि । तानि जन्मानि सर्वाणि अहं वेद । त्वं न वेत्थ ।

शब्दार्थः[सम्पादयतु]

परन्तप = अर्जुन !
मे तव च = मम च ते च
बहूनि = नैकानि
जन्मानि = जनूंषि
व्यतीतानि = अतिक्रान्तानि
तानि सर्वाणि = तानि असङ्ख्येयानि जनूंषि
अहम् = अहम्
वेद = जानामि
त्वम् = भवान्
न वेत्थ = न जानाति ।

अर्थः[सम्पादयतु]

हे अर्जुन ! मम च तव च जन्मानि असङ्ख्याकानि सम्पन्नानि । परन्तु तानि सर्वाणि भवान् ज्ञातुं न शक्नोति । अहं तु जानामि ।

शाङ्करभाष्यम्[सम्पादयतु]

या वासुदेवेऽनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन् श्रीभगवानुवाच यदर्थो ह्यर्जुनस्य प्रश्नः- बहूनीति। बहूनि मे मम व्यतीतान्यतिक्रान्तानि जन्मानि तवच हेऽर्जुन, तान्यहं वेद जाने सर्वाणि। न त्वं वेत्थ न जानीषे। धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात्। अहं पुनर्नित्य शुद्धबुद्धमुक्त स्वभावत्वादनावरणज्ञानशक्तिरिति वेदाहं हेपरंतप।।5।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अपरं भवतो जन्म...
बहूनि मे व्यतीतानि... अग्रिमः
अजोऽपि सन्नव्ययात्मा...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बहूनि_मे_व्यतीतानि...&oldid=408427" इत्यस्माद् प्रतिप्राप्तम्