(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

आयुःसत्त्वबलारोग्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०७:२५, २८ फेब्रवरी २०१७ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (== सम्बद्धाः लेखाः == using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ॥

अन्वयः[सम्पादयतु]

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ।

शब्दार्थः[सम्पादयतु]

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः = आयुष्यम् उत्साहः शक्तिः आरोग्यं चित्तप्रसादः प्रीतिश्च एषां वर्धकाः
रस्याः = आस्वादनीयाः
स्निग्धाः = स्नेहवन्तः
स्थिराः = चिरस्थायिनः
हृद्याः =रमणीयाः
सात्त्विकप्रियाः = सात्त्विकाभिमताः ।

अर्थः[सम्पादयतु]

तत्र आयुष्यम्, उत्साहः, शक्तिः, आरोग्यं, चित्तप्रसादः, प्रीतिश्चेति एतेषां गुणानां विवर्धकाः, आस्वाद्याः, स्नेहवन्तः, चिरस्थायिनः, रमणीयाश्च ये आहाराः सन्ति ते सात्त्विकानां प्रियाः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आयुःसत्त्वबलारोग्य...&oldid=418464" इत्यस्माद् प्रतिप्राप्तम्