(Go: >> BACK << -|- >> HOME <<)

कर्मणः सुकृतस्याहुः...

(14.16 कर्मणः सुकृतस्य….. इत्यस्मात् पुनर्निर्दिष्टम्)


 
गीतोपदेशः
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः

सम्पादयतु

कर्मणः सुकृतस्य आहुः सात्त्विकं निर्मलं फलम् रजसः तु फलं दुःखम् अज्ञानं तमसः फलम् ॥ १६ ॥

सुकृतस्य कर्मणः निर्मलं सात्त्विकं फलम् आहुः । रजसः फलं तु दुःखम् । तमसः फलम् अज्ञानम् ।

शब्दार्थः

सम्पादयतु
सुकृतस्य कर्मणः = साधु विहितस्य कर्मणः
निर्मलम् = स्वच्छम्
सात्त्विकम् = सत्त्वसम्पन्नम्
फलम् = सुखरूपफलम्
आहुः = ब्रुवन्ति ।

साधु विहितस्य कर्मणः सत्त्वप्रधानं स्वच्छं सुखं फलं कथयन्ति । रजोगुणस्य दुःखं तमसस्तु अज्ञानम्।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=कर्मणः_सुकृतस्याहुः...&oldid=418516" इत्यस्माद् प्रतिप्राप्तम्