(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

न त्वेवाहं जातु नासं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
न त्वेवाहं जातु नासं...


शोकस्य अनुचितत्वम्
श्लोकसङ्ख्या २/१२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अशोच्यानन्वशोचस्त्वं...
अग्रिमश्लोकः देहिनोऽस्मिन्यथा देहे...

नत्वेवाहं जातु नासम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः पदार्थयोः कृते शोकस्य अनुचितत्वं बोधयति । पूर्वस्मिन् श्लोके अर्जुनस्य शोकनिवृत्त्यै उपदेशम् आरब्धवान् श्रीकृष्णः अर्जुनस्य पाण्डित्यपूर्णवचनानां माध्यमेन शोकः न करणीयः ? इति उक्तवान् । अत्र शोकः किमर्थं न करणीयः इत्यस्य समाधानं वदति । सः वदति यत्, कस्मिंश्चित् काले अहं नासं, त्वं नासीः, एते राजानः च नासन् इति नास्ति । एवञ्च इतः परम् अहं, त्वम्, एते राजानः च न भवियन्ति इत्यपि नास्ति इति ।

श्लोकः

गीतोपदेशः
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥

पदच्छेदः

न, तु, एव, अहम्, जातु, न, आसम्, न, त्वम्, न, इमे, जनाधिपाः । न, च, एव, न, भविष्यामः, सर्वे, वयम् , अतः, परम् ॥

अन्वयः

अहं जातु न आसम्, न तु एव त्वम् (आसीः), न इमे जनाधिपाः (आसन्), न अतः परं वयं सर्वे न च एव भविष्यामः ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
अहम् अस्मद्-द.सर्व.प्र.एक. अहम्
जातु अव्ययम् कदाचिदपि
अव्ययम् अवश्यम्
तु अव्ययम्
एव अव्ययम्
आसम् √अस सत्तायाम्-पर.कर्तरि, लङ्.उपु.एक. आसम्
त्वं न तु एव न (आसीः) युष्मद्-द.सर्व.पं.एक. त्वमपि अवश्यम् आसीः
अतः अव्ययम् इतः
परम् अ.नपुं.द्वि.एक.क्रियाविशेषणम् ऊर्ध्वम्
सर्वे अ.सर्व.पुं.प्र.बहु समस्ताः
वयम् अस्मद्-द.सर्व.प्र.बहु. वयं
न च एव न अव्ययम् अवश्यम्
भविष्यामः √भू सत्तायाम्-पर.कर्तरि, लृट्.उपु.बहु. भविष्यामः

व्याकरणम्

सन्धिः

  1. त्वेवाहम् = तु + एव + अहम् – यण्सन्धिः, सवर्णदीर्घसन्धिः
  2. नासम् = न + आसम् - सवर्णदीर्घसन्धिः
  3. नेमे = न + इमे – गुणसन्धिः
  4. चैव = च + एव – वृद्धिसन्धिः

समासः

  1. जनाधिपाः = जनानाम् अधिपाः - षष्ठीतत्पुरुषः

अर्थः

अहं सर्वदा आसम् । त्वं सर्वदा आसीः । एते राजानः अपि सर्वदा आसन् । इतःपरमपि वयं सर्वे सर्वदा भविष्यामः । आत्मा स्थिरः इति वयं सर्वे सर्वदा अवश्यं भवामः इत्यभिप्रायः ।

भावार्थः [१]

संसारमात्रे वस्तुद्वयम् अस्ति । शरीरी, शरीरञ्च । अर्थात् सत्, असच्च । एते वस्तुनी अशोच्ये स्तः । अर्थात् शोकः शरीरित्वात् उत शरीरत्वात् भवितुं नार्हति । किञ्च शरीरिणः कदापि अभावः न भवति । शरीरञ्च कदापि स्थायि न भवति । एतयोः कृते एव पूर्वस्मिन् श्लोके "अशोच्यान्" इत्यस्य पदस्य उपयोगः कृतः । तस्य पदस्य टीकां कर्तुं भगवान् शरीरिणः नित्यतायाः, शरीरस्य अनित्यतायाः च उपस्थापनं करोति ।

'न त्वेवाहं जातु... जनाधिपाः' – लौकिकदृष्ट्या यावता मया एषः अवतारः (श्रीकृष्णरूपेण) न स्वीकृतः आसीत्, तावता अहम् अप्रत्यक्षः आसम् । त्वमपि यावता एतस्मिन् रूपे जन्म न प्राप्तवान् आसीत्, तावता सर्वेभ्यः अप्रकटः आसीः । एते राजानः अपि यावता जन्म न प्राप्तवन्तः, तावता अप्रत्यक्षाः आसन् । परन्तु अहं, त्वम्, एते राजानः च एतस्मिन् रूपे अप्रकटितेषु सत्सु अपि न आसन् इति नास्ति ।

"अहं, त्वम्, एते राजानः पूर्वम् आसन्" इत्युक्ते सत्यपि विषयबोधः शक्यः आसीत् । तथापि "अहं, त्वम्, एते राजानः च पूर्वं नासन्" इति उक्तम् । यतो हि "पूर्वं नासन् इति नास्ति" इत्युक्ते "पूर्वे वयं सर्वे अवश्यम् आस्म" इति दृढसङ्केतः भवति । तात्पर्यम् अस्ति यत्, नित्यतत्त्वं सर्वदा नित्यम् अस्ति । तस्य कदापि अभावः न भवति । "जातु" इत्यस्य पदस्योपयोगस्य कारणम् अस्ति यत्, भूतभविष्यवर्तमानकालेषु, कस्मिंश्चित् स्थले, परिस्थितौ, अवस्थायां, घटनायां, वस्त्वित्यादिषु नित्यतत्त्वस्य ईषदपि अभावः असम्भवः ।

अत्र "अहम्" इत्यस्य पदस्य उपयोगेन भगवान् विलक्षणं चर्चां करोति । अग्रे चतुर्थेऽध्याये भगवान् अर्जुनं कथयिष्यति यत्, "मम, तव च अनेकानि जन्मानि जातानि । परन्तु तानि अहं जानामि, त्वं न" इति [२] । एवं भगवान् स्वस्य ईश्वरत्वं प्रकटीकृत्य जीवेभ्यः स्वस्य भिन्नत्वं प्रदर्शयिष्यति । परन्तु अत्र भगवान् जीवैः सह स्वस्य ऐक्यं प्रदर्शयति । अर्थात् चतुर्थेऽध्याये भगवान् स्वस्य महत्तां, विशेषतां च प्रकटयति, अत्र च तात्त्विकदृष्ट्या नित्यत्त्वं प्रदर्शयति ।

'न चैव... वयमतः परम्' – भविष्ये शरीराणाम् एतादृशी अवस्था न भविष्यति । एकस्मिन् दिने शरीराणि अपि न भविष्यन्ति । परन्तु तादृशीषु अवस्थासु सर्वे न भविष्यन्ति इति नास्ति । अर्थात् वयं सर्वे अवश्यं भविष्यामः । किञ्च नित्यतत्त्वस्य कदापि अभावः नासीत्, न भविष्यति च । अहं, त्वम्, एते राजानः च सर्वे पूर्वमपि नासन् इति नास्ति, अग्रेऽपि न भविष्यामः इत्यपि नास्ति । एवं भूतभविष्ययोः चर्चां भगवान् कृतवान् । परन्तु वर्तमानस्य विषये भगवान् किमपि नावदत् । यतः शरीरस्य दृष्ट्या वयं सर्वे सद्यः प्रत्यक्षाः स्मः । तस्मिन् विषये न कस्यापि संशयः अस्ति । अतः "वयम् अधुना न स्मः इति नास्ति" इति भगवान् नावदत् । यदि तात्त्विकदृष्ट्या पश्यामः, तर्हि वयं सर्वे अधुना स्मः । केवलं शरीरमिदं प्रतिक्षणं परिवर्तितं भवति । एतस्मात् शरीरात् भिन्नत्वानुभवः अस्माभिः वर्तमानकाले एव करणीयः । तात्पर्यम् अस्ति यत्, यथा भूतभविष्यतोः स्वस्य सत्तायाः अभावः नास्ति, तथैव वर्तमानकालेऽपि स्वस्य सत्तायाः अभावः नास्ति इत्यनुभवः करणीयः । यथा प्रत्येकं प्राणी निद्रायाः जागरूकतायाः प्राग् अपि "अधुना अहमस्मि" इत्यस्य अनुभवं करोति, तथा निद्राभङ्गोत्तरम् अपि "अहम् अधुना अस्मि" इति अनुभवति । निद्रावस्थायां, जागरूकावस्थायां च वयं तु तथैव आस्म, केवलं बाह्यज्ञानसामग्रीणाम् अभावः आसीत्, परन्तु अस्माकम् अभावः नासीत् । एवम् अहं, त्वम् एते राजानः च एतेभ्यः शरीरेभ्यः प्राग् अपि आस्म, पश्चात् अपि भविष्यामः । एतत् शरीरम् अधुनापि नाशं प्रति गच्छत् अस्ति, परन्तु अस्माकं सत्ता पूर्वमपि आसीत्, पश्चात् भविष्यति, अधुनापि अस्ति च । अस्माकं सत्ता कालातीता अस्ति । किञ्च वयं सर्वे कालज्ञातारः स्मः । अर्थात् भूतभविष्यद्वर्तमानानां त्रिकालानां ज्ञातारः । तत् कालातीततत्त्वं बोधयितुम् एव भगवान् एनं श्लोकम् अवदत् ।

मर्मः

"अहं, त्वम्, एते राजानः च पूर्वे नासन् इति नास्ति, अग्रे न भविष्यन्ति इत्यपि नास्ति" इत्यस्य तात्पर्यम् अस्ति यत्, यदा शरीराणि नासन्, तदा वयं सर्वे आस्म । यदा शरीराणि न भविष्यन्ति, तदापि वयं भविष्यामः । अर्थात् एतानि शरीरादिवस्तूनि तु अनित्यानि सन्ति इति सिद्ध्यति । "शरीरात् पूर्वं वयम् आस्म, शरीरोत्तरम् अपि भविष्यामः" इत्यनेन स्वरूपस्य नित्यता सिद्ध्यति । एवं सिद्धान्तः भवति यत्, आद्यन्तयोः यः भवति, सः मध्येऽपि भवति । तथा च यः आद्यन्तयोः न भवति, सः मध्येऽपि न भवति इति ।

यः आद्यन्तयोः न भवति, सः मध्ये कथं न भवति ? इति । वर्तमाने तु वयं तत् द्रष्टुं शक्नुमः खलु ? तस्योत्तरम् अस्ति यत्, यत् दृष्ट्या अर्थात् मनोबुद्धीन्द्रियैः दृश्यम् अस्ति, तत् दृश्यं मनोबुद्धीन्द्रियसहितं प्रतिक्षणं परिवर्तनशीलम् अस्ति । तत् एकक्षणम् अपि स्थायि न भवति । परन्तु यदा स्वस्य दृश्येन सह तादात्म्यसम्बन्धः स्थापितः भवति, तदा सः दृष्टा भवति । यदि दृश्यमाध्यमानि (मनोबुद्धीन्द्रियाणि), दृश्यं (मनोबुद्धीन्द्रियाणां विषयाः) च एकक्षणम् अपि स्थायित्वं न प्राप्नुवन्ति, तर्हि दृष्टा स्थायी कथम् ? तात्पर्यम् अस्ति यत्, दृष्टा संज्ञा दृश्यस्य, दर्शनस्य च सम्बन्धेन एव । दृश्यदर्शनयोः सम्बन्धाभावे 'दृष्टा' इति संज्ञा तु न भवत्येव । प्रत्युत तयोः आधारभूतं नित्यत्त्वम् एव अवशिष्यते । तत् नित्यत्त्वम् अस्माकं सर्वेषां कारणं, प्रलयाधारादीनां प्रकाशकं च वक्तुं शक्नुमः । परन्तु तत्र आधेयः, प्रकाश्यश्च इत्येतयोः सम्बन्धौ एव स्तः । आधेयप्रकाश्ययोः असत्ययोः अपि तस्य सत्ता तथैव भवति । तत् सत्यतत्त्वं प्रति यस्य दृष्टिः भवति, सः शोकं कथं कुर्यात् ? अर्थात् सः कदापि शोकं न करोति । एवम् अहं, त्वम्, एते राजानः च अशोच्याः ।

शाङ्करभाष्यम् [३]

कुतस्ते अशोच्याः यतो नित्याः। कथम् -

न तु एव जातु  कदाचित्  अहं नासम्  किं तु आसमेव। अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहमासमित्यभिप्रायः। तथा न त्वं न आसीः किं तु आसीरेव। तथा  न इमे जनाधिपाः  न आसन् किं तु आसन्नेव। तथा  न च एव न भविष्यामः  किं तु भविष्याम एव सर्वे वयम् अतः अस्मात् देहविनाशात्  परम्  उत्तरकाले अपि। त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः। देहेभेदानुवृत्त्या बहुवचनम् नात्मभेदाभिप्रायेण।।

भाष्यार्थः

ते भीष्मादयः अशोच्याः कथम् ? यतः ते नित्याः सन्ति । कथं ते नित्याः ? चेत्, -

कस्मिंश्चित् काले अहं नासम् इति नास्ति, यतः अवश्यम् आसम् । अर्थात् भूतपूर्वशरीराणाम् उत्पत्तौ, विनाशे च अहं सर्वदा आसम् । तथैव त्वम्, एते राजानः चापि आसन् । इतः परम् अर्थात् एतेषां शरीराणां नाशे सत्यपि वयं भविष्यामः । त्रिषु कालेषु आत्मरूपेण सर्वे नित्याः इत्यभिप्रायः । अत्र देहभेदत्वात् बहुवचनान्तस्य प्रयोगः, न तु आत्मभेदाभिप्रायत्वात् ।

रामानुजभाष्यम् [४]

प्रथमं तावद् आत्मनां स्वभावं श्रृणु -

अहं  सर्वेश्वरः तावद् अतो वर्तमानात् पूर्वस्मिन् अनादौ काले  न नासम्  अपि तु आसम्। त्वन्मुखाः च एते ईशितव्याः क्षेत्रज्ञा न नासन् अपि त्वासन्। अहं च यूयं च  सर्वे वयमतः परम्  अस्माद् अनन्तरे काले  न चैव न भविष्यामः  अपि तु भविष्याम एव।

यथा अहं सर्वेश्वरः परमात्मा नित्य इति न अत्र संशयः तथैव भवन्तः क्षेत्रज्ञा आत्मानः अपि नित्या एव इति मन्तव्याः।

एवं भगवतः सर्वेश्वराद् आत्मनां परस्परं च भेदः पारमार्थिकः इति भगवता एव उक्तम् इति प्रतीयते। अज्ञानमोहितं प्रति तन्निवृत्तये पारमार्थिकनित्यत्वोपदेशसमयेअहम्त्वम्इमेसर्वेवयम् इति व्यपदेशात्।

औपाधिकात्मभेदवादे हि आत्मभेदस्य अतात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते।

भगवदुक्तात्मभेदः स्वाभाविकः इति श्रुतिः अपि आह नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्। (श्वेता0 6।13) इति। नित्यानां बहूनां चेतनानां य एकः चेतनो नित्यः स कामान् विदधाति इत्यर्थः। अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्टेः निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारात् निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराः च न संगच्छन्ते।

अथ परमपुरुषस्य अधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपम् इदं भेदज्ञानं दग्धपटादिवत् न बन्धकम् इति उच्येत न एतद् उपपद्यते मरीचिकाजलज्ञानादिकं हि बाधितम् अनुवर्तमानम् अपि न जलाहरणादिप्रवृत्तिहेतुः। एवम् अत्र अपि अद्वैतज्ञानेन बाधितं भेदज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थविषयत्वनिश्चयात् न उपदेशादिप्रवृत्तिहेतुः भवति। न च ईश्वरस्य पूर्वम् अज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्यः सर्वज्ञः सर्ववित् (मु0 उ0 2।1।9) परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च। (श्वेता0 6।8)वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन।। (गीता 7।26) इति श्रुतिस्मृतिविरोधात्।

किं च परमपुरुषश्च इदानीन्तनगुरुपरम्परा च अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमाने अपि भेदज्ञाने स्वनिश्चयानुरूपम् अद्वितीयम् आत्मज्ञानं कस्मै उपदिशति इति वक्तव्यम्।

प्रतिबिम्बवत्प्रतीयमानेभ्यः अर्जुनादिभ्यः इति चेत् न एतद् उपपद्यते न हि अनुन्मत्तः कोऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु तेषां स्वात्मनः अनन्यत्वं जानन् तेभ्यः कमपि अर्थम् उपदिशति।

बाधितानुवृत्तिः अपि तैः न शक्यते वक्तुम् बाधकेन अद्वितीयात्मज्ञानेन आत्मव्यतिरिक्तभेदज्ञानकारणस्य अज्ञानादेः विनष्टत्वात्। द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोः अविनष्टत्वाद् बाधितानुवृत्तिः युक्ता। अनुवर्तमानम् अपि प्रबलप्रमाणबाधितत्वेन अकिञ्चित्करम्। इह तु भेदज्ञानस्य सविषयस्य सकारणस्य अपारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वात् न कथञ्चिद् अपि बाधितानुवुत्तिः संभवति। अतः सर्वेश्वरस्य इदानीन्तनगुरुपरम्परायाः च तत्त्वज्ञानम् अस्ति चेद् भेददर्शनतत्कार्योपदेशाद्यसंभवः। भेददर्शनमस्ति इति चेद् अज्ञानस्य तद्धेतोः स्थितत्वेन अज्ञत्वाद् एव सुतराम् उपदेशो न संभवति।

किं च गुरोः अद्वितीयात्मविज्ञानाद् एव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वात् शिष्यं प्रति उपदेशो निष्प्रयोजनः। गुरुः तज्ज्ञानं च कल्पितम् इति चेत् शिष्यतज्ज्ञानयोः अपि कल्पितत्वात् तदपि अनिवर्त्तकम्। कल्पितत्वेऽपि पूर्वविरोधित्वेन निवर्त्तकम् इति चेत् तदाचार्यज्ञानेऽपि समानम् इति तद् एव निवर्तकं भवति इति उपदेशानर्थक्यम् एव इति कृतम् असमीचीनवादैः निरस्तैः।

भाष्यार्थः

अहं सर्वेश्वरः वर्तमानकालात् पूर्वमपि अनादिकालेऽवश्यम् आसम् । मम शासने स्थिताः त्वया सहिताः एते क्षेत्रज्ञाः (आत्मानः) अपि पुरा अवश्यम् आसन् । अहं, त्वम्, एते च अग्रे न भविष्यामः इति नास्ति, अर्थात् अग्रे निश्चयेन भविष्यामः । यथाहं सर्वेश्वरः परमात्मा नित्यः इत्यस्मिन् न कोऽपि सन्देहः, तथैव क्षेत्रज्ञात्मगणोऽपि निस्सन्देहः नित्यः इति बोध्यम् ।

भगवतः सर्वेश्वरात् परमात्मनः जीवानां, जीवानां परस्परं भेदः च यथार्थः अस्ति इति भगवता उक्तेन अनेन श्लोकेन प्रतीयते । किञ्च भगवान् अज्ञानमोहितम् अर्जुनं प्रति अज्ञाननिवृत्त्यै पारमार्थिकनित्यतायाः उपदेशं कुर्वन् "अहं", "त्वम्", "इमे", "सर्वे", "वयम्" इत्येतेषां पदानाम् उपयोगः कुर्वाणः अस्ति ।

उपाधिकृतस्य आत्मभेदस्य स्वीकारे सति आत्मनां भेदः तात्त्विकः न सिद्ध्यति । अतः तत्त्वज्ञानस्य उपदेशं कुर्वन् भेदानाम् उपदेशः सुसङ्गतः न । भगवता उक्त एष आत्मभेदः स्वाभाविकः अस्ति । एतदेव वचनं श्रुतौ अपि विद्यते यत् – अनेकेषां नित्यचेतनात्मनां यः एकः नित्यः चेतनात्मा अस्ति, सः तेषां कामनाः पूरयति इति [५] । आत्मभेददृष्टिम् अज्ञानजनितमन्यमानस्य मते यः दोषः भवति, तं प्रदर्शयति । परमार्थदृष्ट्या ये युक्तपरमपुरुषाः निर्विशेषकूटस्थस्य नित्यचैतन्यात्मानः यथार्थस्वरूपस्य साक्षात्कारं कृतवन्तः, तेषु अज्ञानस्य, अज्ञानसम्बद्धकार्याणां च अभावः अस्ति । अत एव तैः अज्ञानजनितभेददर्शनस्य, अज्ञानजनितोपदेशादिनां च व्यवहारः असम्भवः ।

यः अद्वैतज्ञानप्राप्तः परमपुरुषः श्रीकृष्णः अस्ति, तस्य बाधितानुवृत्तिरूपं भेदज्ञानमेतत् दग्धवस्त्रादिवत् तस्य कृते बन्धनकारकं नास्ति इति यदि कथयामः, तर्हि तत् असङ्गतं सिद्ध्यति । यतः मृगतृष्णादिषु जायमानं जलज्ञानं वास्तविकज्ञानेन बाधिते सति तत् (मृगतृष्णादि) पूर्ववत् दृश्यमाने सत्यपि जलं प्राप्तुं प्रेरकं न भवति । एवम् अत्रापि अद्वैतज्ञानात् बाधितं भेदज्ञानं कथनमात्राय एव अवशिष्टम् अस्ति । परन्तु तस्य ज्ञानस्य मिथ्यात्वे सिद्धे सति तत् ज्ञानम् उपदेशादीनां प्रवृत्तिकारणं न भवितुम् अर्हति । एतस्मात् अतिरिक्तम् एवमपि वक्तुं न शक्नुमः यत्, ईश्वरः पुरा ज्ञानी आसीत्, ततः सः शास्त्रैः तत्त्वज्ञानं प्राप्तवान् एवं तस्मिन् बाधितानुवृत्तिद्वैतभावः अवशिष्टः इति । यतः एवम् उक्ते सति "यः सर्वज्ञः सर्वविद् अस्ति" [६], तस्य परमेश्वरस्य ज्ञानबलक्रियारूपस्वाभाविकी पराशक्तिः विविधप्रकारिका श्रूयते [७], हे अर्जुन ! अहं भूतवर्तमानभविष्येषु उत्पन्नान् सर्वान् प्राणिनः जानामि, मां कोऽपि न जानाति [८] इत्यादिषु श्रुतिस्मृतिभ्यः तत् विरुद्धम् अस्ति ।

तथा च भेदवादम् अज्ञानजनितमन्यमानैः वक्तव्यं भवति यत्, परमपुरुषाः, एतावता सर्वाः गुरुपरम्पाराः च अद्वितीयात्मरूपस्य निश्चये जाते सति कल्पितभेदज्ञानावशिष्टे सत्यपि स्वनिश्चयानुगुणम् अद्वितीयात्मज्ञानस्य उपदेशं कं प्रति कुर्वन्ति ? इति । प्रतिबिम्बवत् प्रतीयमानम् अर्जुनं प्रति करोति इति यदि वदामः, तर्हि तत् अयोग्यम् । किञ्च यः कोऽपि अनुन्मत्तः मनुष्यः मणिः, असिः, दर्पणः इत्यादिषु दृश्यमानं प्रतिबिम्बं दृष्ट्वा स्वस्य, प्रतिबिम्बस्य भेदं जानाति एव । एवं सः स्वं प्रतिबिम्बं प्रति किमपि उपदेशनं न करोति ।

ते अद्वैतवादिनः एतस्मिन् प्रसङ्गे बाधितानुवृत्तिम् अपि साधयितुं न प्रभवन्ति । यतो हि भेदज्ञानस्य बाधकेन अद्वितीयात्मज्ञानेन आत्मातिरिक्तान्यभेदज्ञानस्य कारणरूपाज्ञानादीनाम् अभावः जातः अस्ति । दृष्टिदोषत्वात् द्वयोः चन्द्रमसोः दर्शनादिषु तु चन्द्रमसः एकत्वज्ञाने सत्यपि चक्षुदोषनाशाभावात् बाधितानुवृत्तिः उचिता अस्ति । तथा च द्वयोः चन्द्रमसोः दर्शनादि पूर्ववत् स्थिते सत्यपि प्रबलप्रमाणबाधिते सति सः किमपि कर्तुं न शक्नोति । परन्तु अत्र अद्वैतज्ञानस्य विषये तु विषयकारणसहितं भेदज्ञानं मिथ्या अस्ति । अतः वस्तुनः यथार्थज्ञानेन तस्य समूलविनाशः भवति । एतादृश्यां स्थितौ बाधितानुवृत्तिः तु असम्भवा एव ।

तेषु भेददर्शनम् अवशिष्यते इति यदि उच्यते, तर्हि अज्ञानम्, अज्ञानकारणं च अवशिष्टे सति तेऽपि अज्ञानिनः सिद्ध्यन्ति । अतः तैः एतादृशः उपदेशः कदापि सम्भवः नास्ति । एतत् अतिरिच्य गुरोः अद्वितीयात्मज्ञाने सत्येव ब्रह्मणः अज्ञानस्य कार्यसहितात्यन्ते अभावे सति शिष्यं प्रति उपदेशः व्यर्थः अस्ति । गुरुः, तस्य ज्ञानं च कल्पितम् अस्ति इति वदामः, तर्हि शिष्यः, तस्य ज्ञानम् अपि कल्पितम् अस्ति । अतः सोऽपि अज्ञाननिवर्तकः न भविष्यति । शिष्यः कल्पिते सत्यपि अज्ञानविरोधी अस्ति, अतः तस्य निवर्तकत्वं भवति इति यदि वदामः, तर्हि आचार्यस्य ज्ञानेऽपि तादृशी शक्तिरेव विद्यते । एवं स एव समस्ताज्ञानस्य निवर्तकः भवति । एवपि उपदेशः तु व्यर्थः एव । अत एव यस्योपरि खण्डनं जातम् अस्ति, तस्मात् असमीचीनवादात् (असङ्गतसिद्धान्तात्) अस्माकं किमपि प्रयोजनं नास्ति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अशोच्यानन्वशोचस्त्वं...
न त्वेवाहं जातु नासं... अग्रिमः
देहिनोऽस्मिन्यथा देहे...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ४, श्लो. ५
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. रामानुजभाष्यम्
  5. नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्, श्वेताश्वतरोपनिषद्, ६/१३
  6. यः सर्वज्ञः सर्ववित्, मुण्डकोपनिषद्, १/१/९
  7. परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, श्वेताश्वतरोपनिषद्, ६/८
  8. गीता, अ. ७, श्लो. २६
    वेदाहं समतीतानि वर्तमानानि चार्जुन ।
    भविष्याणि च भूतानि मां तु वेद न कश्चन ।।

अधिकवाचनाय

"https://sa.wikipedia.org/w/index.php?title=न_त्वेवाहं_जातु_नासं...&oldid=403535" इत्यस्माद् प्रतिप्राप्तम्