"नीतिशतकम्" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) removed Category:संस्कृतग्रन्थाः; added Category:संस्कृतकाव्यानि using HotCat |
||
(१४ योजकैः क्रितानि २२ संस्करणानि न प्रदर्श्यन्ते) | |||
पङ्क्तिः १: | पङ्क्तिः १: | ||
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तयॆ । |
|||
स्वानुभूत्यॆकमानाय नमः शान्ताय तॆजसॆ ॥ |
|||
'''नीतिशतकम्''' (Neethishatakam) इत्येषः [[भर्तृहरिः|भर्तृहरिणा]] रचितः ग्रन्थः । अस्मिन् १०० श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इति सूच्यते । दुर्बलान् दरिद्रान् च उद्दिश्य वदति जीवने सरलता आत्मगौरवञ्च सम्पादनीयमिति। सर्वैः सह स्नेहभावेन व्यवहरणीयमिति उपदिशति । अन्येभ्यः सहाय्यकरणम्, पीडितानां विषये अनुकम्पः, आत्मनिग्रहः, तत्त्वबद्धता च अत्र बहुधा प्रतिपादितः अस्ति । अन्येषां गुणान् श्लाघमानाः अन्येषां दुर्गुणादिविषये मौनाचरणञ्च, स्वस्य उत्तमतायाः गोपनञ्च अवश्यं भाव्यमिति कथयति इदं शतकम् । एते गुणाः अस्मिन् जगति जीवद्भिः एव अभ्यसनीयाः न तु अरण्ये एकान्ते । नीतिशतकस्य मङ्गलश्लोकः - |
|||
अयं नीतिश्तकस्य मङ्गलश्लोकः । |
|||
:'''दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।''' |
|||
==स्वरूपः== |
|||
:'''स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ |
|||
नीतिशतकं [[भर्तृहरिः|भर्तृहरिणा]] रचितम् । अस्मिन् १०० श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इति सूच्यते । दुर्बलान् दरिद्रान् च उद्दिश्य वदति जीवने सरलता आत्मगौरवञ्च सम्पादनीयमिति । सर्वैः सह स्नेहभावेन व्यवहरणीयमिति उपदिशति । अन्येभ्यः सहाय्यकरणम्, पीडितानां विषये अनुकम्पः, आत्मनिग्रहः, तत्त्वबद्धता च अत्र बहुधा प्रतिपादितः अस्ति । अन्येषां गुणान् श्लाघमानाः अन्येषां दुर्गुणादिविषये मौनाचरणञ्च, स्वस्य उत्तमतायाः गोपनञ्च अवश्यं भाव्यमिति कथयति इदं शतकम् । एते गुणाः अस्मिन् जगति जीवद्भिः एव अभ्यसनीयाः न तु अरण्ये एकान्ते । |
|||
''' |
|||
==विषयसूची== |
==विषयसूची== |
||
नीतिशतके एते १० विभागाः दृश्यन्ते । |
नीतिशतके एते १० विभागाः दृश्यन्ते । |
||
पङ्क्तिः १६: | पङ्क्तिः १८: | ||
:# दैवपद्धतिः |
:# दैवपद्धतिः |
||
:# कर्मपद्धतिः |
:# कर्मपद्धतिः |
||
==स्वरूपम्== |
|||
==केचन श्लोकाः== |
|||
संस्कृतवाङ्मये नीतिग्रन्थपरम्पराऽन्यकाव्यविधापरम्परेव नितरां प्राचीना । तस्यामेव परम्परायां भर्तृहरिप्रणीतनीतिशतकमतिहत्त्वमावहति । नीतिशतकं नैतिकव्यावहारिकोपदेशानां भाण्डागारोऽस्ति । वस्तुतः तत् (नीतिशतकम्) दैनन्दिनजीवनोपयोगिनां सुभाषितानामप्यमूल्यो निधिः । नीतिशतके नैकनैतिवसिद्धान्तानां प्रतिपादनमस्ति, ये मानवजीवनस्य प्रतिक्षेत्रं महनीयसाहाय्यरूपां भूमिकां निर्वाहयन्ति । नीतिशतकगता उपदेशाः शाश्वताः सार्वजनीना जातिधर्मसम्प्रदायनिरपेक्षाश्च सन्ति । वस्तुतो जीवनस्याखिलाङ्गानि दृष्टिगतानि विधायैव तेषां रचना जाता । नीतिशतके व्यावहारिकजीवनोपयोगीन्यनेकविधानि सुभाषितानि नयनगोचरतां यान्ति । नीतिशतकस्य वर्णविषयाणां क्षेत्रमतिविशालमस्ति । तस्मिन्, मूर्खस्य, विदुषः, दुर्जनस्य, सुजनस्य, दैवस्य, कर्मणः, शौरस्य, शीलस्य, धनस्य, धैरस्य, परोपकारस्य, विद्यायाः, सत्सङ्गेतश्चाटुकारित्वस्य च नितरामाह्लादजनकानि वर्णनानि समुपलभ्यते । अपरे विषया अपि तस्मिन् वर्ण्यतां याताः सन्ति। नीतिशतकं मुक्तककाव्यविधायां गण्यते, येषामनुशीलनेन भर्तृहरेर्विविधविषयगतज्ञानस्यावबोधो जायते तथा कोऽपि तेषामध्यनेन स्वजीवने महत्सौविध्यं प्राप्तुं शक्नुयात् । कतिपयोदाहरणान्युद्धृत्य कथ्यमिदं विस्तरशः प्रकाशयितुं काम्यते । |
|||
:दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने |
|||
==चितानि कानिचन सुभाषितानि== |
|||
:प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् । |
|||
<poem> |
|||
:शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता |
|||
‘तावत् शोभते मूर्खो यावत् किञ्चिन्न भासते’ लोकश्रुतिं गतामुक्तिमिमां मनसि विधाय भर्तृहरिर्व्यञ्जनया कथयति यद् विधात्रा मूर्खाणां कृते मौनरूपमेतादृशं छादनं निर्मितं यदाश्रयणेन मूर्खः स्वमौढ्याच्छादनं विधातुं समर्थः स्यात् । मौनरूपाच्छादनं स्वाधीनं, गुणयुक्तं विद्यते । पण्डितानां समाजे तु (सभायान्तु) तदाभूषणमिव मूर्खान् शोभयति- |
|||
:ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितः ॥ |
|||
'''स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।''' |
|||
'''विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ।।''' (नी० श० ७) |
|||
अल्पज्ञे मनुष्ये स्ववैदुष्यस्याभिमानो जागर्ति । परन्तु शनैः शनैर्विद्वज्जनसम्पर्कादवाप्ते च विशेषज्ञाने तदीयोऽभिज्ञानः सद्य चूर्णतां व्रजति । यथार्थमिदमधस्तने श्लोके शोभनरूपेण प्रकाशं यातम्- |
|||
'''यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं''' |
|||
'''तदा सर्वज्ञोऽस्मीयभवदवलिप्तं मम मनः ।''' |
|||
'''यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं''' |
|||
'''तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ।।''' (नी० श० ८) |
|||
अनेन श्लोकेन सारतत्त्वमिदमनायासेन समक्षमापतति यदज्ञ एव स्वल्पज्ञानविषयेऽभिमानमाश्रयते न विशेषज्ञः । |
|||
मूर्खस्य मूर्खतामपसारयितुं नास्ति कश्चिदुपायो लोक इति तथ्यं प्रकाशयितुं भर्तृहरिर्ब्रूते यत् समेषां रोगाणां शास्त्रोक्तमौषधमस्ति परन्तु मौढ्यरोगस्य नास्ति शास्त्रविहितमौषधम् । विभिन्नदृष्टान्तैर्भर्तृहरिः स्पष्टयति यदग्निना जलस्य, छत्रेण सूर्यातपस्य, मदोन्मत्तगजराजस्य तीक्ष्णाङ्कुशेन, गोगर्दभयोर्दण्डेन, औषधसेवनेन रोगस्य, विभिन्नमन्त्रप्रयोगेण विषस्य निवारणं कर्तुं शक्यते परन्तु मूर्खस्य मौढ्यं दुरीकर्तुं न शक्यते- |
|||
'''शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो''' |
|||
'''नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।''' |
|||
'''व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं''' |
|||
'''सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्''' ।। ११ ।। |
|||
यः साहित्यं सङ्गीतं कलाञ्च न जानीते स साक्षात्पशुरेव । भर्तृहरिः स्ववर्ण्यं प्रभावकरं विधातुं व्यञ्जनया वृत्त्या कथयति यत् सङ्गीतादिविहीनो नरः श्रृङ्गपुच्छविहीनण् पशुरिव मूल्यहीनोऽस्ति । यद्युच्येत् केनचिद् यत् पशुस्तु तृणमत्ति परन्तु मनुष्यरूपपशुस्तु तृणं नात्ति, भर्तृहरिर्व्यनक्ति यत्तृणाभक्षणमीदृशानां पशूनां (मूर्खाणां) वास्तविकपशूनां कृते हितकरमेव- |
|||
'''साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।''' |
|||
'''तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ।। १२ ।।''' |
|||
साधारणतो धनधान्यादिसमृद्धिशालिनो जना (राजानः) आश्रयदातृत्वेन विदुषः प्रत्यभिमानं दधति । ईदृशान् राज्ञः (धनाढ्यजनान्) प्रति भर्तृहरिर्ब्रवीति यद् राजभिः कदापि विद्वांसो नावमन्तव्या यतो हि ते खल्वीदृशविधानां गुप्तं धनं धरन्ते यददृश्यं, कल्याणकरं व्यवस्थायां वर्धनशीलं शाश्वतमक्षुण्णञ्चास्ति- |
|||
'''कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् ।''' |
|||
'''येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते''' ।। १६ ।। |
|||
यथा कुपितोऽपि ब्रह्मा हंसस्य नीरक्षीररूपां विवेकशक्तिं कथमपि हर्त्तुं न क्षमस्तथैव कुपितोऽपि राजा विद्वांसं विविधदण्डैर्दण्डयितुं समर्थः स्यात्, परन्तु स विदुषो जन्मजातं वैदुष्यमपहर्त्तुं न क्षमः स्यात्- |
|||
'''अम्भोजिनीवनविहारविलासमेव''' |
|||
'''हंसस्य हन्ति नितरां कुपितो विधाता ।''' |
|||
'''न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां''' |
|||
'''वैदग्ध्यकीर्त्तिमपहर्तुमसौ समर्थः ।। १८ ।।''' |
|||
अधस्तने श्लोके वाणीरूपस्य (विद्यारूपस्य) आभूषणस्य यथार्थतां साधयिंतु भर्तृहरिः प्रतिपादयति यत् केयूराद्याभूषणानि सन्ति तथा तानि न तथा पुरुषं भूषयन्ति यथा वाग्भूषणम्- |
|||
'''क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्''' ।। १९ ।। |
|||
संस्कृतवाङ्मये सत्सङ्गस्य महत्त्वमङ्गीकृतं तत् प्रशक्तिश्चानेकत्र कृता विभाति । ‘ससर्गजा दोषगुणा भवन्ति’ अर्थात् सत्सङ्गाद् गुणाण् कुसङ्गाच्च दोषा भवन्ति’ इति सदुक्तिमनुसृत्य सत्सङ्गतिरेव मानवकृते हितापहाऽस्ति न कुसङ्गति । मानवैः सदा सत्सङ्गतिरेवाश्रयणीयेति मनसि निधाय नीतिविशारदो भर्तृहरिः सत्सङ्गत्या गुणान् वर्णयति तथाऽन्त तउद्घोषयति यत्सङ्गत्या सर्वाभीष्टं साधयितुं शक्नोति मनुजः । सत्सङ्गतिर्बुद्धेर्जडतां हरति, वाण्यां सत्यं निवेशयति, सम्मानवृद्धिं जनयति, पापं दूरिकरोति, मानसं प्रसादयति, सर्वासु दिक्षु च कीर्तीं विस्तारयति, वस्तुतः सत्सङ्गत्या किमभीष्टमवापुं न शक्यम् ?- |
|||
'''जाड्यं धियो हरति सिञ्चति वाचि सत्यं''' |
|||
'''मानोन्नतिं दिशति पापमपाकरोति ।''' |
|||
'''चेतः प्रसादयति दिक्षु तनोति कीर्तिं''' |
|||
'''सत्सङ्गतिः कथय किं न करोति पुंसाम् ।। २३ ।।''' |
|||
महाकविना भर्तृहरिणा निम्नाङ्किते श्लोके निर्दिष्टाः कल्याणमार्गा नूनं मानवानां कृते कल्याणप्रदाः । तेषां समाश्रयणेन मनुष्यो निश्चितरूपेण स्वीयं व्यापकं हितं विधातुं समर्थः स्यात् । प्राणिहिंसाया विरतिः, परसम्पत्तिहरणान्निवृत्तिः, सत्यवादित्वं, समये स्वशक्त्यनुसारं दानं, स्त्रीविषयकचर्चायां मौनाश्रयणं, लोभावरोधः, गुरुजनान् प्रति विनयश्च निर्विवादरूपेण मानवकल्याणकरा मार्गाः सन्ति- |
|||
'''प्राणघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं''' |
|||
'''काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।''' |
|||
'''तृष्णास्त्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा''' |
|||
'''सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ।। २६ ।।''' |
|||
कार्यसम्पादनदृष्ट्या भर्तृहरिणा मनुष्याणां कृतं श्रेणीत्रियतं निश्चितरूपतया प्रभावकरं युक्तञ्च विद्यते- |
|||
'''प्रारभ्यते न खलु विघ्नभयेन नीचैः''' |
|||
'''प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।''' |
|||
'''विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः''' |
|||
'''प्रारभ्य चेत्तमजना न परित्यजन्ति ।। २७ ।।''' |
|||
सज्जनैः समाश्रितं कर्मव्रतं खड्गधारेव तीक्ष्णं वर्तते । तद्व्रतं नूनमतिकठिनम्- |
|||
'''सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्''' ।। २८ ।। |
|||
महाकविभर्तृहरिर्विभिन्नस्वभाववर्णने नितरां प्रवीणः । श्लोकेऽस्मिन् कुक्कुरस्य हस्तिनश्च माध्यमेन क्षुद्रजनस्य स्वाभिमानिनश्च सहजस्वभाववर्णनं सुतरां मनोहरं यथार्थञ्चास्ति । एकतः श्वा स्वभोजनदातुः समक्षं पुच्छचालनं तच्चरणावपातं तथा धरण्यां पतित्वा निजमुखमुदरञ्च दर्शयति परन्त्वेतद्विपरीतं गजराजः स्वसमक्षं स्वामिद्वारा समानीतं खाद्यपदार्थं गम्भीरं पश्यति’ । शतशोऽभ्यर्थ्यमानञ्च सन् भुङ्क्ते । श्लोकेनानेन चाटुकाराणां स्वाभिमानिनाञ्च स्वभाववर्णनमत्यत्तं प्रभावकरमस्ति- |
|||
'''लाङ्गुलचालनमधश्चरणावपातं''' |
|||
'''भूमौ निपत्य वदनोदरदर्शनं च ।''' |
|||
'''श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु''' |
|||
'''धीरं विलोकयति चाटुशतैश्च भुङ्क्ते''' ।। ३१ ।। |
|||
संसारे धनस्य महिमाऽपूर्वोऽस्ति यतो हि तेनाकुलीनोऽपि कुलीनोऽपण्डितोऽपि पण्डितोऽमर्मज्ञोऽपि मर्मज्ञोऽगुणज्ञोऽपि तथा गुणज्ञो मन्यते जनैः । सर्वे गुणाः काञ्चनामेवाश्रयन्तिअर्थात् सर्वगुणानां मूलं धनमस्ति- |
|||
'''यस्यास्ति वित्तं स नरः कुलीनः''' |
|||
'''स पण्डितः स श्रुतवान् गुणज्ञः ।''' |
|||
'''स एव वक्ता स च दर्शनीयः''' |
|||
'''सर्वे गुणाः काञ्चनमाश्रयन्ति''' ।। ४१ ।। |
|||
संसारे विकासस्य हेतूनां ज्ञानं यथाऽऽवश्यकन्तथैव विनाशस्य कारणानामपि बोधोऽप्यपेक्षितः । अधोलिखिते श्लोके केन हेतुना को विनश्यति? इति प्रश्नस्य समाधिरत्यन्तं क्षेमकरः । भर्तृहरिमते कुमन्त्रणात् राज्ञः, आसक्तेः संन्यासिनः, लालनात्पुत्रेस्य, अनध्ययनाद् ब्राह्मणस्य, कुपुत्रात् वंशस्य, दुर्जनसेवनात् सदाचारस्य, मदिरापानात् लज्जायाः, अनन्वेक्षणात् कृषेः, परदेशवासात् स्नेहस्य, प्रेमाभावात् मैत्र्याः, अनीतेः समृद्धेः, प्रमादपूर्वकव्ययाद् धनस्य च विनाशो भवति। एकस्मिन्नेव श्लोके बहूनां नाशहेतुत्ववर्णनं नितरां महनीयम्- |
|||
'''दौर्मन्त्र्यात्रृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-''' |
|||
'''द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।''' |
|||
'''ह्रीर्मद्यादनदेक्षाणादपि कृषिः स्नेहः प्रवासाश्रया-''' |
|||
'''न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम्''' ।। ४२ ।। |
|||
संसारे राजनीतेर्नास्ति किञ्चित् सुनिश्चितं रूपम् । विभिन्नावसरेषु तस्याः स्वरूपवैविध्यं दृश्यतेतराम् । भर्तृहरिमते राजनीतिर्वेश्येव परस्परविरोधिस्वरूपं धरते । तस्यां (राजनीत्यां) कदाचित्सत्याश्रयणं, क्वचिद्सत्याश्रयणं, क्वचित्परुषत्वाङ्गीकरणं,क्वचिच्च प्रियवादित्वाङ्गीकरणं, क्वचिद् हिंसायाः क्वचिद् दयायाश्च समाश्रयाणं क्रियते । क्वचिदर्थपरता दृश्यते पुनः क्वचिदुदारत्वं विलोक्यते, क्वचिन्नित्यव्ययता क्वचिच्च धनागमश्च दृष्टिगोचरतां यान्ति- |
|||
'''सत्याऽनृता च परुषा प्रियवादिनी च''' |
|||
'''हिस्रा दयालुरपि चाऽर्थपरा वदान्या ।''' |
|||
'''नित्यव्यया प्रचुरनित्यधनागमा च''' |
|||
'''वाराङ्गनेव नृपनीतिरनेकरुपा''' ।। ४७ ।। |
|||
निम्नाङ्किते पद्ये भर्तृहरिणा अगुणापेक्षयां लोभस्य, पातकापेक्षया पिशुनतायाः, तपोऽपेक्षया सत्यस्य, तीर्थापेक्षया मनः शुद्धेः, गुणापेक्षया सौजन्यस्य, मण्डनापेक्षया महिम्नः, अन्यधनापेक्षया विद्याधनस्य, तथा मरणापेक्षयाऽपयशसोऽधिक माहात्म्यं प्रख्यापयति । अर्थात् तन्मते लोभः, पिशुनता, सत्यं, मनःशुद्धिः, सौजन्यं, महिमा, विद्याधनम्, अपयशः क्रमशोऽ गुणात्, पातकात्, तपसः, तिर्थात्, गुणात्, मण्डनात्, भौतिकधनात्, मरणाच्चाधिको हानिकरा जायते मानवानां कृते- |
|||
'''लोभश्चेदगुणेन किं पिशुनता यद्यास्ति किं पातकैः''' |
|||
'''सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।''' |
|||
'''सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः''' |
|||
'''सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना''' ।। ५५ ।। |
|||
‘लोके सेवाधर्मो नितान्तकठिनो विद्यते इति सर्वे जानन्ति । तपस्विनामपि कृते सेवाधर्मपरिपालनं दुष्करमेव’ इति तथ्यं प्रकाशं नेतुं कविः प्रभावोत्पादिकां शैलीमाश्रित्य कथयति यत् सेवको मौनाश्रयणात् स्वाम्यादिभिर्मूकः, प्रवचनपाटवाद् वाचालो, बहुभाषी वा, सान्निध्यवासाद् धृष्टो दूरवासाद् बुद्धिहीनः, क्षमाश्रयणात् कायरोऽसहनकरणाद कुलीनश्च मन्यते । सेवकस्यैतादृशी स्थितिः सेवकवृत्त्याश्रयणाद् भवति- |
|||
'''मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा''' |
|||
'''धृष्टः पार्श्वे वसति च तदा दूरतश्चाऽप्रगल्भः ।''' |
|||
'''क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः''' |
|||
'''सेवाधर्मः परमगहनो योगिनामप्यगम्यः''' ।। ५८ ।। |
|||
अधस्तने पद्ये स्वाभाविकगुणानां वर्णनं कीदृशमाह्लादजनकमस्ति । महात्मानो विपत्तौ धैर्यं, अभ्युन्नतौ क्षमां, सभायां वाक्पटुत्वं, युद्धे पराक्रमं, यशः प्राप्यै कामनां, वेदाध्ययन उद्योगञ्च समाश्रयन्ति- |
|||
'''विपदि धैर्यमथाभ्युदये क्षमा''' |
|||
'''सदसि वाक्पटुता युधि विक्रमः ।''' |
|||
'''यशसि चाभिरुचिर्व्यसनं श्रुतौ''' |
|||
'''प्रकृतिसिद्धमिदं हि महात्मनाम्''' ।। ६३ ।। |
|||
सज्जनाः सत्पात्रेभ्यो गुप्तरूपेण धनं ददति । दत्त्वा च तत्प्रचारं न कुर्वन्ति, गृहमागतमतिथिं सत्कुर्वन्ति, कस्यचित्प्रियं (हितं) विधायापि न तद्वदन्ति, स्वम्प्रत्यन्यकृतमुपकारं सभायामपि निःसङ्कोचं वदन्ति, स्वसम्पत्तिकाले गर्वं न धारयन्ति, परचरित्रवर्णने निन्दां नाश्रयन्ति, एतत्सर्वाणि समुल्लेख्यानि कृत्यानि सज्जना स्वयमेव सम्पादयन्ति । कस्यचित् प्रेरणाभाव एव ते तीक्ष्णखड्गधारेव कठोरं व्रतं पालयन्ति- |
|||
'''प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः''' |
|||
'''प्रियं कृत्वा मौनं सदसि कथनं चात्युपकृतेः ।''' |
|||
'''अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः''' |
|||
'''सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्''' ।। ६४ ।। |
|||
घनवृक्षसज्जनदृष्टान्तेन परोपकारिणां जनानां सहजस्वभाववर्णनमप्रतिमरूपेणाकर्षकं भव्यञ्चास्तेऽधोलिखिते पद्ये- |
|||
'''भवन्ति नम्रास्तरवः फलोद्गमै-''' |
|||
'''र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।''' |
|||
'''अनुद्धताः सत्पुरुषाः समृद्धिभिः''' |
|||
'''स्वभाव एवैष परोपकारिणाम्''' ।। ७१ ।। |
|||
अधोऽङ्किते श्लोके प्रतिपादितं सन्मित्रस्यातिभव्यं लक्षणं कं न प्रभावयति?- |
|||
'''पापान्निवारयति योजयते हिताय''' |
|||
'''गुह्यं निगूहति गुणान्प्रकटीकरोति ।''' |
|||
'''आपद्गतं च न जहाति ददाति काले''' |
|||
'''सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः''' ।। ७३ ।। |
|||
परहितसम्पादनदृष्ट्या मनुष्याणां (दुर्जनानां) श्रेणीचतुष्टयस्य स्वरूपं ज्ञापयितुं भर्तृहरिर्वदति यत्प्रथमश्रेण्यां ते महापुरुषाः परिगण्यन्ते ये स्वार्थं विहाय परार्थं साधयन्ति । द्वितीयश्रेण्यां त आपतन्ति ये स्वार्थसाधनेन साकं परार्थमपि साधयन्ति । तृतीयश्रेण्याञ्च तेषां मानुषराक्षसानां गणना क्रियते ये खलु स्वार्थाय परार्थं नाशयन्ति । श्रेणीत्रयगतानां नराणां व्यक्तिरिक्ता ईदृशा अपि नराधमाः सन्ति ये निरर्थकमेव परहितं विघ्नन्तितेषां गणना कस्यां श्रेण्यां क्रियेत्? –इति न ज्ञायते । श्लोकेऽस्मिन् कारणमन्तरैव परहितहननशीलानां जनानां दुष्कृतं भृशं गर्हितम्- |
|||
'''एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये''' |
|||
'''सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।''' |
|||
'''तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये''' |
|||
'''ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ।।''' ७५ ।। |
|||
भर्तृहरिणा ‘विद्याविहीनः पशुः’ इति प्रतिपादयितुं विद्याया अनेकान् गुणान् निम्नाङ्किते श्लोके वर्णयति । तत्रूनं हृदयावर्जकं समाकर्षकञ्च- |
|||
विद्या मनुष्यस्य विशेषं रूपमस्ति तच्चातिगुप्तं धनं विद्यते तच्चौरैरपि न हार्यं भवति, विद्या भोगं यशः सौख्यञ्च प्रदत्ते । विद्या गुरूणामपि गुरुरस्ति विदेशगमनकाले विद्या बन्धुवत् साहाय्यं विधत्ते । विद्या समुत्कृष्टको देवोऽस्ति । विद्या राजभिरपि पूज्यते न हि धनं पूज्यते । वस्तुतः एतादृशगुणसम्पन्नया विद्यया हीनो मनुष्यः पशुरेवास्ति- |
|||
'''विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं''' |
|||
'''विद्या भोगकरी यशःसुखकरी विद्या गुरुणां गुरुः ।''' |
|||
'''विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं''' |
|||
'''विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः''' ।। २० ।। |
|||
‘शीलं परं भूषणमिति कथ्यं स्पष्टं प्रकाशं नेतुं कविः कस्य किमाभूषणमिति वर्णयति पद्येऽस्मिन् । तदनुसारं सौजन्यमैश्वर्यस्य, वाक्यसंयमः शौर्यस्य, शान्तिर्ज्ञानस्य, विनम्रता विद्यायाः (शास्त्रज्ञानस्य), सुपात्रदानं धनस्य, क्रोधविहीनता तपस्यायाः, समर्थप्रभोः क्षमा, धर्मस्य निश्छलत्वं च भूषणं भवति । परन्तु सकलानामैश्वर्यादीनामपिश्रेष्ठमाभूषणं शीलं (सद्वृत्तम्) अस्ति । न केवलमेतावदेव शीलनामकमाभूषणानां सुजनतादीनां कारणभूतमस्ति यतो हि शीलं विना सुजनातादयो नोत्पद्यन्ते- |
|||
'''ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो''' |
|||
'''ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।''' |
|||
'''अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता''' |
|||
'''सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्''' ।। ८३ ।। |
|||
‘न्यायपथमारूढा धैर्यशालिनो निन्दां, स्तुतिं, लक्ष्मीगमनागमनं, सद्यो युगान्तरे वा मरणमनपेक्षैवाविचलरूपेण न्यायपथपथिका भवन्ति’ द्रष्टव्यमेतद्विषयं चारुचित्रमधस्तने श्लोके- |
|||
'''निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु''' |
|||
'''लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।''' |
|||
'''अद्यैव वा मरणमस्तु युगान्तरे वा''' |
|||
'''न्याय्यात्पथः प्रविचलन्ति पदं न धीराः''' ।। ८४ ।। |
|||
</poem> |
|||
==नीतिशतकात् उद्धृताः सूक्तयः== |
|||
वस्तुतो नीतिशतकमेतादृशो ग्रन्थोऽस्ति यद्गता उपदेशा जनताजनार्दनस्य हृदयहारतां याताः सन्तो नितान्तं लोकप्रियत्वमवाप्ताः । प्रबुद्धा जनाः पदेपदे नीतिशतकगतानुपदेशानुद्धरन्ति । तदाङ्कितानि सुभाषितानि तु मानवजीवनयात्रायाः सम्बलरूपतयैव जातानि । तेषां कतिपयानि विशिष्टानि निम्नाङ्कितानि सन्ति- |
|||
<poem> |
|||
(१) ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्चयति । |
|||
(२) विभूषणं मौनमपण्डितानाम् । |
|||
(३) नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् । |
|||
(४) विवेकभ्रष्टानां भवति विनिपातः शतमुखः । |
|||
(५) मूर्खस्य नास्त्यौषधम् । |
|||
(६) कवयस्त्वर्थं विनापीश्वराः । |
|||
(७) विद्याविहीनः पशुः । |
|||
(८) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् । |
|||
(९) सत्सङ्गतिः कथय किं न करोति पुंसाम् । |
|||
(१०) न खलु वयस्तेजसो हेतुः । |
|||
(११) प्रारब्धमुत्तमजनाः न परित्यजन्ति । |
|||
(१२) सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् । |
|||
(१३) सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् । |
|||
(१४) स जातो येन जातेन याति वंशः समुन्नतिम् । |
|||
(१५) सर्वे गुणाः काञ्चनमाश्रयन्ति । |
|||
(१६) वाराङ्गनेव नृपनीतिरनेकरूपा । |
|||
(१७) दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् । |
|||
(१८) छायेव मैत्री खलसज्जनानाम् । |
|||
(१९) हेतारमपि जुह्वानं स्पृष्टो दहति पावकः । |
|||
(२०) सेवाधर्मः परमगहनो योगिनामप्यगम्यः । |
|||
(२१) अनुद्धताः सत्पुरुषाः समृद्धिभिः । |
|||
(२२) सन्तः स्वयं परहिते विहिताभियोगाः । |
|||
(२३) विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन । |
|||
(२४) न निश्चितार्थाद्विरमन्ति धीराः । |
|||
(२५) शीलं परं भूषणम् । |
|||
(२६) मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् । |
|||
(२७) न्याय्यात् पथः प्रविचलन्ति पदं न धीराः । |
|||
(२८) नास्त्युद्यमसमो बन्धुः । |
|||
(२९) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । |
|||
(३०) सन्तः सन्तप्यन्ते न दुःखेषु । |
|||
(३१) कर्मायत्तं फलं पुंसाम् । |
|||
(३२) रक्षन्ति पुण्यानि पुराकृतानि । |
|||
(३३) तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यव्रतव्यसनिनः न पुनः प्रतिज्ञाम् । |
|||
</poem> |
|||
एतदत्रावश्यमेवावधेयम् । यद्यपि नीतिशतकाभिधानग्रन्थो नीतिप्रकाशानपर एवास्ति । तथापि तस्य स्थितिः शुक्रनीतिचाणक्यनीतिप्रभृतय इव नास्ति । नीतिशतकं वस्तुतो मुक्तकाव्यविद्यायां परिगण्यते । अतस्तस्मिन् काव्यसौन्दर्यमपि राजतेतराम् । तस्मिन् छन्दसामलङ्काराणां विशदः प्रयोगः । स्वल्पकायात्मके ग्रन्थेऽस्मिन् चतुर्दशछन्दसां प्रयोगो जाता येषु शार्दूलविक्रीडितछन्दोऽधिकरूपेण प्रयोगं यातम् । शार्दूलविक्रीडितछन्दः समाश्रित्यैव भर्तृहरिकेस्मिन्नेव श्लोके नैकप्रतिपाद्यविषयाणां समावेशः कृतः । |
|||
नीतिशतकेऽलङ्कारसमावेशोऽपि नितान्तं चारुतरः । भर्तृहरिणा स्वकविताकामिनीमलङ्कर्त्तुं विविधा अलङ्काराः प्रयुक्ताः । अनुप्रासच्छटा तु पदे-पदे नयनगोचरतां याति । साधर्म्यमूलकालङ्कारनिवेशे भर्तृहरिकाव्यचातुर्यं निरतिशयेन प्रकाशते। उपमायाः प्रयोगो बाहुल्येन यातः । उपमेतरालङ्कारेषु रूपकदृष्टान्तातिशयोक्तिसमासोक्तिनिदर्शनाऽर्थान्तरन्यासप्रभृतीनां विद्यमानतया नीतिशतके मनोहरं काव्यसौन्दर्यं निविष्टम्। |
|||
एवं विविधविषयकमहनीयनीतिवचनदृष्ट्या नीतिशतकमेकतो स्वपाठकान् सम्यग् दिशानिर्देशं विधत्ते पुनरपरतः स्वकाव्यगतसौन्दर्येण सहृदयजनचित्तचञ्चरीकं रससिक्तञ्च कुरुते । नूनं नीतिशतकमिदं स्वीयमहनीयवैशिष्ट्यात् चिरकालं यावत् प्रभावा भारितं त्स्थास्यतीये । |
|||
:राजन् ! दुधुक्षसि यदि क्षितिधेनुमेनां |
|||
:तेनाद्य वत्समिव लोकममुं पुषाण । |
|||
:तस्मिंश्च स्म्यगनिशं परिपोष्यमाणे |
|||
:नानाफलं फलति कल्पलतेव भूमिः ॥ |
|||
|
|||
:कान्ताकटाक्षविशिखा न लुनन्ति यस्य |
|||
:चित्तं न निर्दहति कोपकृशानुतापः । |
|||
:तर्षन्ति भूरिविषयाश्च न लोभपाशा |
|||
:लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ |
|||
: |
|||
[[वर्गः: |
[[वर्गः:संस्कृतकाव्यानि]] |
||
[[वर्गः:चित्रं योजनीयम्]] |
|||
[[वर्गः:बाह्यानुबन्धः योजनीयः]] |
|||
[[वर्गः:सारमञ्जूषा योजनीया]] |
|||
[[वर्गः:भर्तृहरेः कृतयः]] |
वर्तमाना आवृत्तिः ०९:१०, २ नवेम्बर् २०२० इति समये
नीतिशतकम् (Neethishatakam) इत्येषः भर्तृहरिणा रचितः ग्रन्थः । अस्मिन् १०० श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इति सूच्यते । दुर्बलान् दरिद्रान् च उद्दिश्य वदति जीवने सरलता आत्मगौरवञ्च सम्पादनीयमिति। सर्वैः सह स्नेहभावेन व्यवहरणीयमिति उपदिशति । अन्येभ्यः सहाय्यकरणम्, पीडितानां विषये अनुकम्पः, आत्मनिग्रहः, तत्त्वबद्धता च अत्र बहुधा प्रतिपादितः अस्ति । अन्येषां गुणान् श्लाघमानाः अन्येषां दुर्गुणादिविषये मौनाचरणञ्च, स्वस्य उत्तमतायाः गोपनञ्च अवश्यं भाव्यमिति कथयति इदं शतकम् । एते गुणाः अस्मिन् जगति जीवद्भिः एव अभ्यसनीयाः न तु अरण्ये एकान्ते । नीतिशतकस्य मङ्गलश्लोकः -
- दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
- स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥
विषयसूची[सम्पादयतु]
नीतिशतके एते १० विभागाः दृश्यन्ते ।
- मूर्खपद्धतिः
- विद्वत्पद्धतिः
- मानशौर्यपद्धतिः
- अर्थपद्धतिः
- दुर्जनपद्धतिः
- सुजनपद्धतिः
- परोपकारपद्धतिः
- धैर्यपद्धतिः
- दैवपद्धतिः
- कर्मपद्धतिः
स्वरूपम्[सम्पादयतु]
संस्कृतवाङ्मये नीतिग्रन्थपरम्पराऽन्यकाव्यविधापरम्परेव नितरां प्राचीना । तस्यामेव परम्परायां भर्तृहरिप्रणीतनीतिशतकमतिहत्त्वमावहति । नीतिशतकं नैतिकव्यावहारिकोपदेशानां भाण्डागारोऽस्ति । वस्तुतः तत् (नीतिशतकम्) दैनन्दिनजीवनोपयोगिनां सुभाषितानामप्यमूल्यो निधिः । नीतिशतके नैकनैतिवसिद्धान्तानां प्रतिपादनमस्ति, ये मानवजीवनस्य प्रतिक्षेत्रं महनीयसाहाय्यरूपां भूमिकां निर्वाहयन्ति । नीतिशतकगता उपदेशाः शाश्वताः सार्वजनीना जातिधर्मसम्प्रदायनिरपेक्षाश्च सन्ति । वस्तुतो जीवनस्याखिलाङ्गानि दृष्टिगतानि विधायैव तेषां रचना जाता । नीतिशतके व्यावहारिकजीवनोपयोगीन्यनेकविधानि सुभाषितानि नयनगोचरतां यान्ति । नीतिशतकस्य वर्णविषयाणां क्षेत्रमतिविशालमस्ति । तस्मिन्, मूर्खस्य, विदुषः, दुर्जनस्य, सुजनस्य, दैवस्य, कर्मणः, शौरस्य, शीलस्य, धनस्य, धैरस्य, परोपकारस्य, विद्यायाः, सत्सङ्गेतश्चाटुकारित्वस्य च नितरामाह्लादजनकानि वर्णनानि समुपलभ्यते । अपरे विषया अपि तस्मिन् वर्ण्यतां याताः सन्ति। नीतिशतकं मुक्तककाव्यविधायां गण्यते, येषामनुशीलनेन भर्तृहरेर्विविधविषयगतज्ञानस्यावबोधो जायते तथा कोऽपि तेषामध्यनेन स्वजीवने महत्सौविध्यं प्राप्तुं शक्नुयात् । कतिपयोदाहरणान्युद्धृत्य कथ्यमिदं विस्तरशः प्रकाशयितुं काम्यते ।
चितानि कानिचन सुभाषितानि[सम्पादयतु]
‘तावत् शोभते मूर्खो यावत् किञ्चिन्न भासते’ लोकश्रुतिं गतामुक्तिमिमां मनसि विधाय भर्तृहरिर्व्यञ्जनया कथयति यद् विधात्रा मूर्खाणां कृते मौनरूपमेतादृशं छादनं निर्मितं यदाश्रयणेन मूर्खः स्वमौढ्याच्छादनं विधातुं समर्थः स्यात् । मौनरूपाच्छादनं स्वाधीनं, गुणयुक्तं विद्यते । पण्डितानां समाजे तु (सभायान्तु) तदाभूषणमिव मूर्खान् शोभयति-
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ।। (नी० श० ७)
अल्पज्ञे मनुष्ये स्ववैदुष्यस्याभिमानो जागर्ति । परन्तु शनैः शनैर्विद्वज्जनसम्पर्कादवाप्ते च विशेषज्ञाने तदीयोऽभिज्ञानः सद्य चूर्णतां व्रजति । यथार्थमिदमधस्तने श्लोके शोभनरूपेण प्रकाशं यातम्-
यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीयभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ।। (नी० श० ८)
अनेन श्लोकेन सारतत्त्वमिदमनायासेन समक्षमापतति यदज्ञ एव स्वल्पज्ञानविषयेऽभिमानमाश्रयते न विशेषज्ञः ।
मूर्खस्य मूर्खतामपसारयितुं नास्ति कश्चिदुपायो लोक इति तथ्यं प्रकाशयितुं भर्तृहरिर्ब्रूते यत् समेषां रोगाणां शास्त्रोक्तमौषधमस्ति परन्तु मौढ्यरोगस्य नास्ति शास्त्रविहितमौषधम् । विभिन्नदृष्टान्तैर्भर्तृहरिः स्पष्टयति यदग्निना जलस्य, छत्रेण सूर्यातपस्य, मदोन्मत्तगजराजस्य तीक्ष्णाङ्कुशेन, गोगर्दभयोर्दण्डेन, औषधसेवनेन रोगस्य, विभिन्नमन्त्रप्रयोगेण विषस्य निवारणं कर्तुं शक्यते परन्तु मूर्खस्य मौढ्यं दुरीकर्तुं न शक्यते-
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ।। ११ ।।
यः साहित्यं सङ्गीतं कलाञ्च न जानीते स साक्षात्पशुरेव । भर्तृहरिः स्ववर्ण्यं प्रभावकरं विधातुं व्यञ्जनया वृत्त्या कथयति यत् सङ्गीतादिविहीनो नरः श्रृङ्गपुच्छविहीनण् पशुरिव मूल्यहीनोऽस्ति । यद्युच्येत् केनचिद् यत् पशुस्तु तृणमत्ति परन्तु मनुष्यरूपपशुस्तु तृणं नात्ति, भर्तृहरिर्व्यनक्ति यत्तृणाभक्षणमीदृशानां पशूनां (मूर्खाणां) वास्तविकपशूनां कृते हितकरमेव-
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ।। १२ ।।
साधारणतो धनधान्यादिसमृद्धिशालिनो जना (राजानः) आश्रयदातृत्वेन विदुषः प्रत्यभिमानं दधति । ईदृशान् राज्ञः (धनाढ्यजनान्) प्रति भर्तृहरिर्ब्रवीति यद् राजभिः कदापि विद्वांसो नावमन्तव्या यतो हि ते खल्वीदृशविधानां गुप्तं धनं धरन्ते यददृश्यं, कल्याणकरं व्यवस्थायां वर्धनशीलं शाश्वतमक्षुण्णञ्चास्ति-
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् ।
येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ।। १६ ।।
यथा कुपितोऽपि ब्रह्मा हंसस्य नीरक्षीररूपां विवेकशक्तिं कथमपि हर्त्तुं न क्षमस्तथैव कुपितोऽपि राजा विद्वांसं विविधदण्डैर्दण्डयितुं समर्थः स्यात्, परन्तु स विदुषो जन्मजातं वैदुष्यमपहर्त्तुं न क्षमः स्यात्-
अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्त्तिमपहर्तुमसौ समर्थः ।। १८ ।।
अधस्तने श्लोके वाणीरूपस्य (विद्यारूपस्य) आभूषणस्य यथार्थतां साधयिंतु भर्तृहरिः प्रतिपादयति यत् केयूराद्याभूषणानि सन्ति तथा तानि न तथा पुरुषं भूषयन्ति यथा वाग्भूषणम्-
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। १९ ।।
संस्कृतवाङ्मये सत्सङ्गस्य महत्त्वमङ्गीकृतं तत् प्रशक्तिश्चानेकत्र कृता विभाति । ‘ससर्गजा दोषगुणा भवन्ति’ अर्थात् सत्सङ्गाद् गुणाण् कुसङ्गाच्च दोषा भवन्ति’ इति सदुक्तिमनुसृत्य सत्सङ्गतिरेव मानवकृते हितापहाऽस्ति न कुसङ्गति । मानवैः सदा सत्सङ्गतिरेवाश्रयणीयेति मनसि निधाय नीतिविशारदो भर्तृहरिः सत्सङ्गत्या गुणान् वर्णयति तथाऽन्त तउद्घोषयति यत्सङ्गत्या सर्वाभीष्टं साधयितुं शक्नोति मनुजः । सत्सङ्गतिर्बुद्धेर्जडतां हरति, वाण्यां सत्यं निवेशयति, सम्मानवृद्धिं जनयति, पापं दूरिकरोति, मानसं प्रसादयति, सर्वासु दिक्षु च कीर्तीं विस्तारयति, वस्तुतः सत्सङ्गत्या किमभीष्टमवापुं न शक्यम् ?-
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किं न करोति पुंसाम् ।। २३ ।।
महाकविना भर्तृहरिणा निम्नाङ्किते श्लोके निर्दिष्टाः कल्याणमार्गा नूनं मानवानां कृते कल्याणप्रदाः । तेषां समाश्रयणेन मनुष्यो निश्चितरूपेण स्वीयं व्यापकं हितं विधातुं समर्थः स्यात् । प्राणिहिंसाया विरतिः, परसम्पत्तिहरणान्निवृत्तिः, सत्यवादित्वं, समये स्वशक्त्यनुसारं दानं, स्त्रीविषयकचर्चायां मौनाश्रयणं, लोभावरोधः, गुरुजनान् प्रति विनयश्च निर्विवादरूपेण मानवकल्याणकरा मार्गाः सन्ति-
प्राणघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्त्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ।। २६ ।।
कार्यसम्पादनदृष्ट्या भर्तृहरिणा मनुष्याणां कृतं श्रेणीत्रियतं निश्चितरूपतया प्रभावकरं युक्तञ्च विद्यते-
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारभ्य चेत्तमजना न परित्यजन्ति ।। २७ ।।
सज्जनैः समाश्रितं कर्मव्रतं खड्गधारेव तीक्ष्णं वर्तते । तद्व्रतं नूनमतिकठिनम्-
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। २८ ।।
महाकविभर्तृहरिर्विभिन्नस्वभाववर्णने नितरां प्रवीणः । श्लोकेऽस्मिन् कुक्कुरस्य हस्तिनश्च माध्यमेन क्षुद्रजनस्य स्वाभिमानिनश्च सहजस्वभाववर्णनं सुतरां मनोहरं यथार्थञ्चास्ति । एकतः श्वा स्वभोजनदातुः समक्षं पुच्छचालनं तच्चरणावपातं तथा धरण्यां पतित्वा निजमुखमुदरञ्च दर्शयति परन्त्वेतद्विपरीतं गजराजः स्वसमक्षं स्वामिद्वारा समानीतं खाद्यपदार्थं गम्भीरं पश्यति’ । शतशोऽभ्यर्थ्यमानञ्च सन् भुङ्क्ते । श्लोकेनानेन चाटुकाराणां स्वाभिमानिनाञ्च स्वभाववर्णनमत्यत्तं प्रभावकरमस्ति-
लाङ्गुलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ।। ३१ ।।
संसारे धनस्य महिमाऽपूर्वोऽस्ति यतो हि तेनाकुलीनोऽपि कुलीनोऽपण्डितोऽपि पण्डितोऽमर्मज्ञोऽपि मर्मज्ञोऽगुणज्ञोऽपि तथा गुणज्ञो मन्यते जनैः । सर्वे गुणाः काञ्चनामेवाश्रयन्तिअर्थात् सर्वगुणानां मूलं धनमस्ति-
यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति ।। ४१ ।।
संसारे विकासस्य हेतूनां ज्ञानं यथाऽऽवश्यकन्तथैव विनाशस्य कारणानामपि बोधोऽप्यपेक्षितः । अधोलिखिते श्लोके केन हेतुना को विनश्यति? इति प्रश्नस्य समाधिरत्यन्तं क्षेमकरः । भर्तृहरिमते कुमन्त्रणात् राज्ञः, आसक्तेः संन्यासिनः, लालनात्पुत्रेस्य, अनध्ययनाद् ब्राह्मणस्य, कुपुत्रात् वंशस्य, दुर्जनसेवनात् सदाचारस्य, मदिरापानात् लज्जायाः, अनन्वेक्षणात् कृषेः, परदेशवासात् स्नेहस्य, प्रेमाभावात् मैत्र्याः, अनीतेः समृद्धेः, प्रमादपूर्वकव्ययाद् धनस्य च विनाशो भवति। एकस्मिन्नेव श्लोके बहूनां नाशहेतुत्ववर्णनं नितरां महनीयम्-
दौर्मन्त्र्यात्रृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनदेक्षाणादपि कृषिः स्नेहः प्रवासाश्रया-
न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ।। ४२ ।।
संसारे राजनीतेर्नास्ति किञ्चित् सुनिश्चितं रूपम् । विभिन्नावसरेषु तस्याः स्वरूपवैविध्यं दृश्यतेतराम् । भर्तृहरिमते राजनीतिर्वेश्येव परस्परविरोधिस्वरूपं धरते । तस्यां (राजनीत्यां) कदाचित्सत्याश्रयणं, क्वचिद्सत्याश्रयणं, क्वचित्परुषत्वाङ्गीकरणं,क्वचिच्च प्रियवादित्वाङ्गीकरणं, क्वचिद् हिंसायाः क्वचिद् दयायाश्च समाश्रयाणं क्रियते । क्वचिदर्थपरता दृश्यते पुनः क्वचिदुदारत्वं विलोक्यते, क्वचिन्नित्यव्ययता क्वचिच्च धनागमश्च दृष्टिगोचरतां यान्ति-
सत्याऽनृता च परुषा प्रियवादिनी च
हिस्रा दयालुरपि चाऽर्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरुपा ।। ४७ ।।
निम्नाङ्किते पद्ये भर्तृहरिणा अगुणापेक्षयां लोभस्य, पातकापेक्षया पिशुनतायाः, तपोऽपेक्षया सत्यस्य, तीर्थापेक्षया मनः शुद्धेः, गुणापेक्षया सौजन्यस्य, मण्डनापेक्षया महिम्नः, अन्यधनापेक्षया विद्याधनस्य, तथा मरणापेक्षयाऽपयशसोऽधिक माहात्म्यं प्रख्यापयति । अर्थात् तन्मते लोभः, पिशुनता, सत्यं, मनःशुद्धिः, सौजन्यं, महिमा, विद्याधनम्, अपयशः क्रमशोऽ गुणात्, पातकात्, तपसः, तिर्थात्, गुणात्, मण्डनात्, भौतिकधनात्, मरणाच्चाधिको हानिकरा जायते मानवानां कृते-
लोभश्चेदगुणेन किं पिशुनता यद्यास्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ।। ५५ ।।
‘लोके सेवाधर्मो नितान्तकठिनो विद्यते इति सर्वे जानन्ति । तपस्विनामपि कृते सेवाधर्मपरिपालनं दुष्करमेव’ इति तथ्यं प्रकाशं नेतुं कविः प्रभावोत्पादिकां शैलीमाश्रित्य कथयति यत् सेवको मौनाश्रयणात् स्वाम्यादिभिर्मूकः, प्रवचनपाटवाद् वाचालो, बहुभाषी वा, सान्निध्यवासाद् धृष्टो दूरवासाद् बुद्धिहीनः, क्षमाश्रयणात् कायरोऽसहनकरणाद कुलीनश्च मन्यते । सेवकस्यैतादृशी स्थितिः सेवकवृत्त्याश्रयणाद् भवति-
मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा
धृष्टः पार्श्वे वसति च तदा दूरतश्चाऽप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।। ५८ ।।
अधस्तने पद्ये स्वाभाविकगुणानां वर्णनं कीदृशमाह्लादजनकमस्ति । महात्मानो विपत्तौ धैर्यं, अभ्युन्नतौ क्षमां, सभायां वाक्पटुत्वं, युद्धे पराक्रमं, यशः प्राप्यै कामनां, वेदाध्ययन उद्योगञ्च समाश्रयन्ति-
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ।। ६३ ।।
सज्जनाः सत्पात्रेभ्यो गुप्तरूपेण धनं ददति । दत्त्वा च तत्प्रचारं न कुर्वन्ति, गृहमागतमतिथिं सत्कुर्वन्ति, कस्यचित्प्रियं (हितं) विधायापि न तद्वदन्ति, स्वम्प्रत्यन्यकृतमुपकारं सभायामपि निःसङ्कोचं वदन्ति, स्वसम्पत्तिकाले गर्वं न धारयन्ति, परचरित्रवर्णने निन्दां नाश्रयन्ति, एतत्सर्वाणि समुल्लेख्यानि कृत्यानि सज्जना स्वयमेव सम्पादयन्ति । कस्यचित् प्रेरणाभाव एव ते तीक्ष्णखड्गधारेव कठोरं व्रतं पालयन्ति-
प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चात्युपकृतेः ।
अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। ६४ ।।
घनवृक्षसज्जनदृष्टान्तेन परोपकारिणां जनानां सहजस्वभाववर्णनमप्रतिमरूपेणाकर्षकं भव्यञ्चास्तेऽधोलिखिते पद्ये-
भवन्ति नम्रास्तरवः फलोद्गमै-
र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ।। ७१ ।।
अधोऽङ्किते श्लोके प्रतिपादितं सन्मित्रस्यातिभव्यं लक्षणं कं न प्रभावयति?-
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ।। ७३ ।।
परहितसम्पादनदृष्ट्या मनुष्याणां (दुर्जनानां) श्रेणीचतुष्टयस्य स्वरूपं ज्ञापयितुं भर्तृहरिर्वदति यत्प्रथमश्रेण्यां ते महापुरुषाः परिगण्यन्ते ये स्वार्थं विहाय परार्थं साधयन्ति । द्वितीयश्रेण्यां त आपतन्ति ये स्वार्थसाधनेन साकं परार्थमपि साधयन्ति । तृतीयश्रेण्याञ्च तेषां मानुषराक्षसानां गणना क्रियते ये खलु स्वार्थाय परार्थं नाशयन्ति । श्रेणीत्रयगतानां नराणां व्यक्तिरिक्ता ईदृशा अपि नराधमाः सन्ति ये निरर्थकमेव परहितं विघ्नन्तितेषां गणना कस्यां श्रेण्यां क्रियेत्? –इति न ज्ञायते । श्लोकेऽस्मिन् कारणमन्तरैव परहितहननशीलानां जनानां दुष्कृतं भृशं गर्हितम्-
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ।। ७५ ।।
भर्तृहरिणा ‘विद्याविहीनः पशुः’ इति प्रतिपादयितुं विद्याया अनेकान् गुणान् निम्नाङ्किते श्लोके वर्णयति । तत्रूनं हृदयावर्जकं समाकर्षकञ्च-
विद्या मनुष्यस्य विशेषं रूपमस्ति तच्चातिगुप्तं धनं विद्यते तच्चौरैरपि न हार्यं भवति, विद्या भोगं यशः सौख्यञ्च प्रदत्ते । विद्या गुरूणामपि गुरुरस्ति विदेशगमनकाले विद्या बन्धुवत् साहाय्यं विधत्ते । विद्या समुत्कृष्टको देवोऽस्ति । विद्या राजभिरपि पूज्यते न हि धनं पूज्यते । वस्तुतः एतादृशगुणसम्पन्नया विद्यया हीनो मनुष्यः पशुरेवास्ति-
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरुणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ।। २० ।।
‘शीलं परं भूषणमिति कथ्यं स्पष्टं प्रकाशं नेतुं कविः कस्य किमाभूषणमिति वर्णयति पद्येऽस्मिन् । तदनुसारं सौजन्यमैश्वर्यस्य, वाक्यसंयमः शौर्यस्य, शान्तिर्ज्ञानस्य, विनम्रता विद्यायाः (शास्त्रज्ञानस्य), सुपात्रदानं धनस्य, क्रोधविहीनता तपस्यायाः, समर्थप्रभोः क्षमा, धर्मस्य निश्छलत्वं च भूषणं भवति । परन्तु सकलानामैश्वर्यादीनामपिश्रेष्ठमाभूषणं शीलं (सद्वृत्तम्) अस्ति । न केवलमेतावदेव शीलनामकमाभूषणानां सुजनतादीनां कारणभूतमस्ति यतो हि शीलं विना सुजनातादयो नोत्पद्यन्ते-
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।। ८३ ।।
‘न्यायपथमारूढा धैर्यशालिनो निन्दां, स्तुतिं, लक्ष्मीगमनागमनं, सद्यो युगान्तरे वा मरणमनपेक्षैवाविचलरूपेण न्यायपथपथिका भवन्ति’ द्रष्टव्यमेतद्विषयं चारुचित्रमधस्तने श्लोके-
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ।। ८४ ।।
नीतिशतकात् उद्धृताः सूक्तयः[सम्पादयतु]
वस्तुतो नीतिशतकमेतादृशो ग्रन्थोऽस्ति यद्गता उपदेशा जनताजनार्दनस्य हृदयहारतां याताः सन्तो नितान्तं लोकप्रियत्वमवाप्ताः । प्रबुद्धा जनाः पदेपदे नीतिशतकगतानुपदेशानुद्धरन्ति । तदाङ्कितानि सुभाषितानि तु मानवजीवनयात्रायाः सम्बलरूपतयैव जातानि । तेषां कतिपयानि विशिष्टानि निम्नाङ्कितानि सन्ति-
(१) ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्चयति ।
(२) विभूषणं मौनमपण्डितानाम् ।
(३) नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ।
(४) विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
(५) मूर्खस्य नास्त्यौषधम् ।
(६) कवयस्त्वर्थं विनापीश्वराः ।
(७) विद्याविहीनः पशुः ।
(८) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।
(९) सत्सङ्गतिः कथय किं न करोति पुंसाम् ।
(१०) न खलु वयस्तेजसो हेतुः ।
(११) प्रारब्धमुत्तमजनाः न परित्यजन्ति ।
(१२) सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।
(१३) सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ।
(१४) स जातो येन जातेन याति वंशः समुन्नतिम् ।
(१५) सर्वे गुणाः काञ्चनमाश्रयन्ति ।
(१६) वाराङ्गनेव नृपनीतिरनेकरूपा ।
(१७) दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् ।
(१८) छायेव मैत्री खलसज्जनानाम् ।
(१९) हेतारमपि जुह्वानं स्पृष्टो दहति पावकः ।
(२०) सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।
(२१) अनुद्धताः सत्पुरुषाः समृद्धिभिः ।
(२२) सन्तः स्वयं परहिते विहिताभियोगाः ।
(२३) विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ।
(२४) न निश्चितार्थाद्विरमन्ति धीराः ।
(२५) शीलं परं भूषणम् ।
(२६) मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।
(२७) न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।
(२८) नास्त्युद्यमसमो बन्धुः ।
(२९) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
(३०) सन्तः सन्तप्यन्ते न दुःखेषु ।
(३१) कर्मायत्तं फलं पुंसाम् ।
(३२) रक्षन्ति पुण्यानि पुराकृतानि ।
(३३) तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यव्रतव्यसनिनः न पुनः प्रतिज्ञाम् ।
एतदत्रावश्यमेवावधेयम् । यद्यपि नीतिशतकाभिधानग्रन्थो नीतिप्रकाशानपर एवास्ति । तथापि तस्य स्थितिः शुक्रनीतिचाणक्यनीतिप्रभृतय इव नास्ति । नीतिशतकं वस्तुतो मुक्तकाव्यविद्यायां परिगण्यते । अतस्तस्मिन् काव्यसौन्दर्यमपि राजतेतराम् । तस्मिन् छन्दसामलङ्काराणां विशदः प्रयोगः । स्वल्पकायात्मके ग्रन्थेऽस्मिन् चतुर्दशछन्दसां प्रयोगो जाता येषु शार्दूलविक्रीडितछन्दोऽधिकरूपेण प्रयोगं यातम् । शार्दूलविक्रीडितछन्दः समाश्रित्यैव भर्तृहरिकेस्मिन्नेव श्लोके नैकप्रतिपाद्यविषयाणां समावेशः कृतः ।
नीतिशतकेऽलङ्कारसमावेशोऽपि नितान्तं चारुतरः । भर्तृहरिणा स्वकविताकामिनीमलङ्कर्त्तुं विविधा अलङ्काराः प्रयुक्ताः । अनुप्रासच्छटा तु पदे-पदे नयनगोचरतां याति । साधर्म्यमूलकालङ्कारनिवेशे भर्तृहरिकाव्यचातुर्यं निरतिशयेन प्रकाशते। उपमायाः प्रयोगो बाहुल्येन यातः । उपमेतरालङ्कारेषु रूपकदृष्टान्तातिशयोक्तिसमासोक्तिनिदर्शनाऽर्थान्तरन्यासप्रभृतीनां विद्यमानतया नीतिशतके मनोहरं काव्यसौन्दर्यं निविष्टम्।
एवं विविधविषयकमहनीयनीतिवचनदृष्ट्या नीतिशतकमेकतो स्वपाठकान् सम्यग् दिशानिर्देशं विधत्ते पुनरपरतः स्वकाव्यगतसौन्दर्येण सहृदयजनचित्तचञ्चरीकं रससिक्तञ्च कुरुते । नूनं नीतिशतकमिदं स्वीयमहनीयवैशिष्ट्यात् चिरकालं यावत् प्रभावा भारितं त्स्थास्यतीये ।