(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"नीतिशतकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 
(१४ योजकैः क्रितानि २६ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
नीतिशतकं [[भर्तृहरिः|भर्तृहरिणा]] रचितम् ।



[[वर्गः:संस्कृतग्रन्थाः]]
'''नीतिशतकम्''' (Neethishatakam) इत्येषः [[भर्तृहरिः|भर्तृहरिणा]] रचितः ग्रन्थः । अस्मिन् १०० श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इति सूच्यते । दुर्बलान् दरिद्रान् च उद्दिश्य वदति जीवने सरलता आत्मगौरवञ्च सम्पादनीयमिति। सर्वैः सह स्नेहभावेन व्यवहरणीयमिति उपदिशति । अन्येभ्यः सहाय्यकरणम्, पीडितानां विषये अनुकम्पः, आत्मनिग्रहः, तत्त्वबद्धता च अत्र बहुधा प्रतिपादितः अस्ति । अन्येषां गुणान् श्लाघमानाः अन्येषां दुर्गुणादिविषये मौनाचरणञ्च, स्वस्य उत्तमतायाः गोपनञ्च अवश्यं भाव्यमिति कथयति इदं शतकम् । एते गुणाः अस्मिन् जगति जीवद्भिः एव अभ्यसनीयाः न तु अरण्ये एकान्ते । नीतिशतकस्य मङ्गलश्लोकः -
:'''दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।'''
:'''स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥
'''

==विषयसूची==
नीतिशतके एते १० विभागाः दृश्यन्ते ।
:# मूर्खपद्धतिः
:# विद्वत्पद्धतिः
:# मानशौर्यपद्धतिः
:# अर्थपद्धतिः
:# दुर्जनपद्धतिः
:# सुजनपद्धतिः
:# परोपकारपद्धतिः
:# धैर्यपद्धतिः
:# दैवपद्धतिः
:# कर्मपद्धतिः
==स्वरूपम्==
संस्कृतवाङ्मये नीतिग्रन्थपरम्पराऽन्यकाव्यविधापरम्परेव नितरां प्राचीना । तस्यामेव परम्परायां भर्तृहरिप्रणीतनीतिशतकमतिहत्त्वमावहति । नीतिशतकं नैतिकव्यावहारिकोपदेशानां भाण्डागारोऽस्ति । वस्तुतः तत् (नीतिशतकम्) दैनन्दिनजीवनोपयोगिनां सुभाषितानामप्यमूल्यो निधिः । नीतिशतके नैकनैतिवसिद्धान्तानां प्रतिपादनमस्ति, ये मानवजीवनस्य प्रतिक्षेत्रं महनीयसाहाय्यरूपां भूमिकां निर्वाहयन्ति । नीतिशतकगता उपदेशाः शाश्वताः सार्वजनीना जातिधर्मसम्प्रदायनिरपेक्षाश्च सन्ति । वस्तुतो जीवनस्याखिलाङ्गानि दृष्टिगतानि विधायैव तेषां रचना जाता । नीतिशतके व्यावहारिकजीवनोपयोगीन्यनेकविधानि सुभाषितानि नयनगोचरतां यान्ति । नीतिशतकस्य वर्णविषयाणां क्षेत्रमतिविशालमस्ति । तस्मिन्, मूर्खस्य, विदुषः, दुर्जनस्य, सुजनस्य, दैवस्य, कर्मणः, शौरस्य, शीलस्य, धनस्य, धैरस्य, परोपकारस्य, विद्यायाः, सत्सङ्गेतश्चाटुकारित्वस्य च नितरामाह्लादजनकानि वर्णनानि समुपलभ्यते । अपरे विषया अपि तस्मिन् वर्ण्यतां याताः सन्ति। नीतिशतकं मुक्तककाव्यविधायां गण्यते, येषामनुशीलनेन भर्तृहरेर्विविधविषयगतज्ञानस्यावबोधो जायते तथा कोऽपि तेषामध्यनेन स्वजीवने महत्सौविध्यं प्राप्तुं शक्नुयात् । कतिपयोदाहरणान्युद्धृत्य कथ्यमिदं विस्तरशः प्रकाशयितुं काम्यते ।
==चितानि कानिचन सुभाषितानि==
<poem>
‘तावत् शोभते मूर्खो यावत् किञ्चिन्न भासते’ लोकश्रुतिं गतामुक्तिमिमां मनसि विधाय भर्तृहरिर्व्यञ्जनया कथयति यद् विधात्रा मूर्खाणां कृते मौनरूपमेतादृशं छादनं निर्मितं यदाश्रयणेन मूर्खः स्वमौढ्याच्छादनं विधातुं समर्थः स्यात् । मौनरूपाच्छादनं स्वाधीनं, गुणयुक्तं विद्यते । पण्डितानां समाजे तु (सभायान्तु) तदाभूषणमिव मूर्खान् शोभयति-
'''स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।'''
'''विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ।।''' (नी० श० ७)

अल्पज्ञे मनुष्ये स्ववैदुष्यस्याभिमानो जागर्ति । परन्तु शनैः शनैर्विद्वज्जनसम्पर्कादवाप्ते च विशेषज्ञाने तदीयोऽभिज्ञानः सद्य चूर्णतां व्रजति । यथार्थमिदमधस्तने श्लोके शोभनरूपेण प्रकाशं यातम्-
'''यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं'''
'''तदा सर्वज्ञोऽस्मीयभवदवलिप्तं मम मनः ।'''
'''यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं'''
'''तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ।।''' (नी० श० ८)
अनेन श्लोकेन सारतत्त्वमिदमनायासेन समक्षमापतति यदज्ञ एव स्वल्पज्ञानविषयेऽभिमानमाश्रयते न विशेषज्ञः ।

मूर्खस्य मूर्खतामपसारयितुं नास्ति कश्चिदुपायो लोक इति तथ्यं प्रकाशयितुं भर्तृहरिर्ब्रूते यत् समेषां रोगाणां शास्त्रोक्तमौषधमस्ति परन्तु मौढ्यरोगस्य नास्ति शास्त्रविहितमौषधम् । विभिन्नदृष्टान्तैर्भर्तृहरिः स्पष्टयति यदग्निना जलस्य, छत्रेण सूर्यातपस्य, मदोन्मत्तगजराजस्य तीक्ष्णाङ्कुशेन, गोगर्दभयोर्दण्डेन, औषधसेवनेन रोगस्य, विभिन्नमन्त्रप्रयोगेण विषस्य निवारणं कर्तुं शक्यते परन्तु मूर्खस्य मौढ्यं दुरीकर्तुं न शक्यते-
'''शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो'''
'''नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।'''
'''व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं'''
'''सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्''' ।। ११ ।।

यः साहित्यं सङ्गीतं कलाञ्च न जानीते स साक्षात्पशुरेव । भर्तृहरिः स्ववर्ण्यं प्रभावकरं विधातुं व्यञ्जनया वृत्त्या कथयति यत् सङ्गीतादिविहीनो नरः श्रृङ्गपुच्छविहीनण् पशुरिव मूल्यहीनोऽस्ति । यद्युच्येत् केनचिद् यत् पशुस्तु तृणमत्ति परन्तु मनुष्यरूपपशुस्तु तृणं नात्ति, भर्तृहरिर्व्यनक्ति यत्तृणाभक्षणमीदृशानां पशूनां (मूर्खाणां) वास्तविकपशूनां कृते हितकरमेव-
'''साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।'''
'''तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ।। १२ ।।'''

साधारणतो धनधान्यादिसमृद्धिशालिनो जना (राजानः) आश्रयदातृत्वेन विदुषः प्रत्यभिमानं दधति । ईदृशान् राज्ञः (धनाढ्यजनान्) प्रति भर्तृहरिर्ब्रवीति यद् राजभिः कदापि विद्वांसो नावमन्तव्या यतो हि ते खल्वीदृशविधानां गुप्तं धनं धरन्ते यददृश्यं, कल्याणकरं व्यवस्थायां वर्धनशीलं शाश्वतमक्षुण्णञ्चास्ति-
'''कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् ।'''
'''येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते''' ।। १६ ।।

यथा कुपितोऽपि ब्रह्मा हंसस्य नीरक्षीररूपां विवेकशक्तिं कथमपि हर्त्तुं न क्षमस्तथैव कुपितोऽपि राजा विद्वांसं विविधदण्डैर्दण्डयितुं समर्थः स्यात्, परन्तु स विदुषो जन्मजातं वैदुष्यमपहर्त्तुं न क्षमः स्यात्-
'''अम्भोजिनीवनविहारविलासमेव'''
'''हंसस्य हन्ति नितरां कुपितो विधाता ।'''
'''न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां'''
'''वैदग्ध्यकीर्त्तिमपहर्तुमसौ समर्थः ।। १८ ।।'''

अधस्तने श्लोके वाणीरूपस्य (विद्यारूपस्य) आभूषणस्य यथार्थतां साधयिंतु भर्तृहरिः प्रतिपादयति यत् केयूराद्याभूषणानि सन्ति तथा तानि न तथा पुरुषं भूषयन्ति यथा वाग्भूषणम्-
'''क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्''' ।। १९ ।।

संस्कृतवाङ्मये सत्सङ्गस्य महत्त्वमङ्गीकृतं तत् प्रशक्तिश्चानेकत्र कृता विभाति । ‘ससर्गजा दोषगुणा भवन्ति’ अर्थात् सत्सङ्गाद् गुणाण् कुसङ्गाच्च दोषा भवन्ति’ इति सदुक्तिमनुसृत्य सत्सङ्गतिरेव मानवकृते हितापहाऽस्ति न कुसङ्गति । मानवैः सदा सत्सङ्गतिरेवाश्रयणीयेति मनसि निधाय नीतिविशारदो भर्तृहरिः सत्सङ्गत्या गुणान् वर्णयति तथाऽन्त तउद्घोषयति यत्सङ्गत्या सर्वाभीष्टं साधयितुं शक्नोति मनुजः । सत्सङ्गतिर्बुद्धेर्जडतां हरति, वाण्यां सत्यं निवेशयति, सम्मानवृद्धिं जनयति, पापं दूरिकरोति, मानसं प्रसादयति, सर्वासु दिक्षु च कीर्तीं विस्तारयति, वस्तुतः सत्सङ्गत्या किमभीष्टमवापुं न शक्यम् ?-
'''जाड्यं धियो हरति सिञ्चति वाचि सत्यं'''
'''मानोन्नतिं दिशति पापमपाकरोति ।'''
'''चेतः प्रसादयति दिक्षु तनोति कीर्तिं'''
'''सत्सङ्गतिः कथय किं न करोति पुंसाम् ।। २३ ।।'''

महाकविना भर्तृहरिणा निम्नाङ्किते श्लोके निर्दिष्टाः कल्याणमार्गा नूनं मानवानां कृते कल्याणप्रदाः । तेषां समाश्रयणेन मनुष्यो निश्चितरूपेण स्वीयं व्यापकं हितं विधातुं समर्थः स्यात् । प्राणिहिंसाया विरतिः, परसम्पत्तिहरणान्निवृत्तिः, सत्यवादित्वं, समये स्वशक्त्यनुसारं दानं, स्त्रीविषयकचर्चायां मौनाश्रयणं, लोभावरोधः, गुरुजनान् प्रति विनयश्च निर्विवादरूपेण मानवकल्याणकरा मार्गाः सन्ति-
'''प्राणघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं'''
'''काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।'''
'''तृष्णास्त्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा'''
'''सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ।। २६ ।।'''

कार्यसम्पादनदृष्ट्या भर्तृहरिणा मनुष्याणां कृतं श्रेणीत्रियतं निश्चितरूपतया प्रभावकरं युक्तञ्च विद्यते-
'''प्रारभ्यते न खलु विघ्नभयेन नीचैः'''
'''प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।'''
'''विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः'''
'''प्रारभ्य चेत्तमजना न परित्यजन्ति ।। २७ ।।'''

सज्जनैः समाश्रितं कर्मव्रतं खड्गधारेव तीक्ष्णं वर्तते । तद्व्रतं नूनमतिकठिनम्-
'''सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्''' ।। २८ ।।

महाकविभर्तृहरिर्विभिन्नस्वभाववर्णने नितरां प्रवीणः । श्लोकेऽस्मिन् कुक्कुरस्य हस्तिनश्च माध्यमेन क्षुद्रजनस्य स्वाभिमानिनश्च सहजस्वभाववर्णनं सुतरां मनोहरं यथार्थञ्चास्ति । एकतः श्वा स्वभोजनदातुः समक्षं पुच्छचालनं तच्चरणावपातं तथा धरण्यां पतित्वा निजमुखमुदरञ्च दर्शयति परन्त्वेतद्विपरीतं गजराजः स्वसमक्षं स्वामिद्वारा समानीतं खाद्यपदार्थं गम्भीरं पश्यति’ । शतशोऽभ्यर्थ्यमानञ्च सन् भुङ्क्ते । श्लोकेनानेन चाटुकाराणां स्वाभिमानिनाञ्च स्वभाववर्णनमत्यत्तं प्रभावकरमस्ति-
'''लाङ्गुलचालनमधश्चरणावपातं'''
'''भूमौ निपत्य वदनोदरदर्शनं च ।'''
'''श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु'''
'''धीरं विलोकयति चाटुशतैश्च भुङ्क्ते''' ।। ३१ ।।
संसारे धनस्य महिमाऽपूर्वोऽस्ति यतो हि तेनाकुलीनोऽपि कुलीनोऽपण्डितोऽपि पण्डितोऽमर्मज्ञोऽपि मर्मज्ञोऽगुणज्ञोऽपि तथा गुणज्ञो मन्यते जनैः । सर्वे गुणाः काञ्चनामेवाश्रयन्तिअर्थात् सर्वगुणानां मूलं धनमस्ति-
'''यस्यास्ति वित्तं स नरः कुलीनः'''
'''स पण्डितः स श्रुतवान् गुणज्ञः ।'''
'''स एव वक्ता स च दर्शनीयः'''
'''सर्वे गुणाः काञ्चनमाश्रयन्ति''' ।। ४१ ।।

संसारे विकासस्य हेतूनां ज्ञानं यथाऽऽवश्यकन्तथैव विनाशस्य कारणानामपि बोधोऽप्यपेक्षितः । अधोलिखिते श्लोके केन हेतुना को विनश्यति? इति प्रश्नस्य समाधिरत्यन्तं क्षेमकरः । भर्तृहरिमते कुमन्त्रणात् राज्ञः, आसक्तेः संन्यासिनः, लालनात्पुत्रेस्य, अनध्ययनाद् ब्राह्मणस्य, कुपुत्रात् वंशस्य, दुर्जनसेवनात् सदाचारस्य, मदिरापानात् लज्जायाः, अनन्वेक्षणात् कृषेः, परदेशवासात् स्नेहस्य, प्रेमाभावात् मैत्र्याः, अनीतेः समृद्धेः, प्रमादपूर्वकव्ययाद् धनस्य च विनाशो भवति। एकस्मिन्नेव श्लोके बहूनां नाशहेतुत्ववर्णनं नितरां महनीयम्-
'''दौर्मन्त्र्यात्रृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-'''
'''द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।'''
'''ह्रीर्मद्यादनदेक्षाणादपि कृषिः स्नेहः प्रवासाश्रया-'''
'''न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम्''' ।। ४२ ।।

संसारे राजनीतेर्नास्ति किञ्चित् सुनिश्चितं रूपम् । विभिन्नावसरेषु तस्याः स्वरूपवैविध्यं दृश्यतेतराम् । भर्तृहरिमते राजनीतिर्वेश्येव परस्परविरोधिस्वरूपं धरते । तस्यां (राजनीत्यां) कदाचित्सत्याश्रयणं, क्वचिद्सत्याश्रयणं, क्वचित्परुषत्वाङ्गीकरणं,क्वचिच्च प्रियवादित्वाङ्गीकरणं, क्वचिद् हिंसायाः क्वचिद् दयायाश्च समाश्रयाणं क्रियते । क्वचिदर्थपरता दृश्यते पुनः क्वचिदुदारत्वं विलोक्यते, क्वचिन्नित्यव्ययता क्वचिच्च धनागमश्च दृष्टिगोचरतां यान्ति-
'''सत्याऽनृता च परुषा प्रियवादिनी च'''
'''हिस्रा दयालुरपि चाऽर्थपरा वदान्या ।'''
'''नित्यव्यया प्रचुरनित्यधनागमा च'''
'''वाराङ्गनेव नृपनीतिरनेकरुपा''' ।। ४७ ।।

निम्नाङ्किते पद्ये भर्तृहरिणा अगुणापेक्षयां लोभस्य, पातकापेक्षया पिशुनतायाः, तपोऽपेक्षया सत्यस्य, तीर्थापेक्षया मनः शुद्धेः, गुणापेक्षया सौजन्यस्य, मण्डनापेक्षया महिम्नः, अन्यधनापेक्षया विद्याधनस्य, तथा मरणापेक्षयाऽपयशसोऽधिक माहात्म्यं प्रख्यापयति । अर्थात् तन्मते लोभः, पिशुनता, सत्यं, मनःशुद्धिः, सौजन्यं, महिमा, विद्याधनम्, अपयशः क्रमशोऽ गुणात्, पातकात्, तपसः, तिर्थात्, गुणात्, मण्डनात्, भौतिकधनात्, मरणाच्चाधिको हानिकरा जायते मानवानां कृते-
'''लोभश्चेदगुणेन किं पिशुनता यद्यास्ति किं पातकैः'''
'''सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।'''
'''सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः'''
'''सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना''' ।। ५५ ।।
‘लोके सेवाधर्मो नितान्तकठिनो विद्यते इति सर्वे जानन्ति । तपस्विनामपि कृते सेवाधर्मपरिपालनं दुष्करमेव’ इति तथ्यं प्रकाशं नेतुं कविः प्रभावोत्पादिकां शैलीमाश्रित्य कथयति यत् सेवको मौनाश्रयणात् स्वाम्यादिभिर्मूकः, प्रवचनपाटवाद् वाचालो, बहुभाषी वा, सान्निध्यवासाद् धृष्टो दूरवासाद् बुद्धिहीनः, क्षमाश्रयणात् कायरोऽसहनकरणाद कुलीनश्च मन्यते । सेवकस्यैतादृशी स्थितिः सेवकवृत्त्याश्रयणाद् भवति-
'''मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा'''
'''धृष्टः पार्श्वे वसति च तदा दूरतश्चाऽप्रगल्भः ।'''
'''क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः'''
'''सेवाधर्मः परमगहनो योगिनामप्यगम्यः''' ।। ५८ ।।

अधस्तने पद्ये स्वाभाविकगुणानां वर्णनं कीदृशमाह्लादजनकमस्ति । महात्मानो विपत्तौ धैर्यं, अभ्युन्नतौ क्षमां, सभायां वाक्पटुत्वं, युद्धे पराक्रमं, यशः प्राप्यै कामनां, वेदाध्ययन उद्योगञ्च समाश्रयन्ति-
'''विपदि धैर्यमथाभ्युदये क्षमा'''
'''सदसि वाक्पटुता युधि विक्रमः ।'''
'''यशसि चाभिरुचिर्व्यसनं श्रुतौ'''
'''प्रकृतिसिद्धमिदं हि महात्मनाम्''' ।। ६३ ।।

सज्जनाः सत्पात्रेभ्यो गुप्तरूपेण धनं ददति । दत्त्वा च तत्प्रचारं न कुर्वन्ति, गृहमागतमतिथिं सत्कुर्वन्ति, कस्यचित्प्रियं (हितं) विधायापि न तद्वदन्ति, स्वम्प्रत्यन्यकृतमुपकारं सभायामपि निःसङ्कोचं वदन्ति, स्वसम्पत्तिकाले गर्वं न धारयन्ति, परचरित्रवर्णने निन्दां नाश्रयन्ति, एतत्सर्वाणि समुल्लेख्यानि कृत्यानि सज्जना स्वयमेव सम्पादयन्ति । कस्यचित् प्रेरणाभाव एव ते तीक्ष्णखड्गधारेव कठोरं व्रतं पालयन्ति-
'''प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः'''
'''प्रियं कृत्वा मौनं सदसि कथनं चात्युपकृतेः ।'''
'''अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः'''
'''सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्''' ।। ६४ ।।

घनवृक्षसज्जनदृष्टान्तेन परोपकारिणां जनानां सहजस्वभाववर्णनमप्रतिमरूपेणाकर्षकं भव्यञ्चास्तेऽधोलिखिते पद्ये-
'''भवन्ति नम्रास्तरवः फलोद्गमै-'''
'''र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।'''
'''अनुद्धताः सत्पुरुषाः समृद्धिभिः'''
'''स्वभाव एवैष परोपकारिणाम्''' ।। ७१ ।।

अधोऽङ्किते श्लोके प्रतिपादितं सन्मित्रस्यातिभव्यं लक्षणं कं न प्रभावयति?-
'''पापान्निवारयति योजयते हिताय'''
'''गुह्यं निगूहति गुणान्प्रकटीकरोति ।'''
'''आपद्गतं च न जहाति ददाति काले'''
'''सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः''' ।। ७३ ।।

परहितसम्पादनदृष्ट्या मनुष्याणां (दुर्जनानां) श्रेणीचतुष्टयस्य स्वरूपं ज्ञापयितुं भर्तृहरिर्वदति यत्प्रथमश्रेण्यां ते महापुरुषाः परिगण्यन्ते ये स्वार्थं विहाय परार्थं साधयन्ति । द्वितीयश्रेण्यां त आपतन्ति ये स्वार्थसाधनेन साकं परार्थमपि साधयन्ति । तृतीयश्रेण्याञ्च तेषां मानुषराक्षसानां गणना क्रियते ये खलु स्वार्थाय परार्थं नाशयन्ति । श्रेणीत्रयगतानां नराणां व्यक्तिरिक्ता ईदृशा अपि नराधमाः सन्ति ये निरर्थकमेव परहितं विघ्नन्तितेषां गणना कस्यां श्रेण्यां क्रियेत्? –इति न ज्ञायते । श्लोकेऽस्मिन् कारणमन्तरैव परहितहननशीलानां जनानां दुष्कृतं भृशं गर्हितम्-
'''एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये'''
'''सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।'''
'''तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये'''
'''ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ।।''' ७५ ।।

भर्तृहरिणा ‘विद्याविहीनः पशुः’ इति प्रतिपादयितुं विद्याया अनेकान् गुणान् निम्नाङ्किते श्लोके वर्णयति । तत्रूनं हृदयावर्जकं समाकर्षकञ्च-
विद्या मनुष्यस्य विशेषं रूपमस्ति तच्चातिगुप्तं धनं विद्यते तच्चौरैरपि न हार्यं भवति, विद्या भोगं यशः सौख्यञ्च प्रदत्ते । विद्या गुरूणामपि गुरुरस्ति विदेशगमनकाले विद्या बन्धुवत् साहाय्यं विधत्ते । विद्या समुत्कृष्टको देवोऽस्ति । विद्या राजभिरपि पूज्यते न हि धनं पूज्यते । वस्तुतः एतादृशगुणसम्पन्नया विद्यया हीनो मनुष्यः पशुरेवास्ति-
'''विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं'''
'''विद्या भोगकरी यशःसुखकरी विद्या गुरुणां गुरुः ।'''
'''विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं'''
'''विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः''' ।। २० ।।

‘शीलं परं भूषणमिति कथ्यं स्पष्टं प्रकाशं नेतुं कविः कस्य किमाभूषणमिति वर्णयति पद्येऽस्मिन् । तदनुसारं सौजन्यमैश्वर्यस्य, वाक्यसंयमः शौर्यस्य, शान्तिर्ज्ञानस्य, विनम्रता विद्यायाः (शास्त्रज्ञानस्य), सुपात्रदानं धनस्य, क्रोधविहीनता तपस्यायाः, समर्थप्रभोः क्षमा, धर्मस्य निश्छलत्वं च भूषणं भवति । परन्तु सकलानामैश्वर्यादीनामपिश्रेष्ठमाभूषणं शीलं (सद्वृत्तम्) अस्ति । न केवलमेतावदेव शीलनामकमाभूषणानां सुजनतादीनां कारणभूतमस्ति यतो हि शीलं विना सुजनातादयो नोत्पद्यन्ते-
'''ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो'''
'''ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।'''
'''अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता'''
'''सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्''' ।। ८३ ।।

‘न्यायपथमारूढा धैर्यशालिनो निन्दां, स्तुतिं, लक्ष्मीगमनागमनं, सद्यो युगान्तरे वा मरणमनपेक्षैवाविचलरूपेण न्यायपथपथिका भवन्ति’ द्रष्टव्यमेतद्विषयं चारुचित्रमधस्तने श्लोके-
'''निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु'''
'''लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।'''
'''अद्यैव वा मरणमस्तु युगान्तरे वा'''
'''न्याय्यात्पथः प्रविचलन्ति पदं न धीराः''' ।। ८४ ।।
</poem>
==नीतिशतकात् उद्धृताः सूक्तयः==
वस्तुतो नीतिशतकमेतादृशो ग्रन्थोऽस्ति यद्गता उपदेशा जनताजनार्दनस्य हृदयहारतां याताः सन्तो नितान्तं लोकप्रियत्वमवाप्ताः । प्रबुद्धा जनाः पदेपदे नीतिशतकगतानुपदेशानुद्धरन्ति । तदाङ्कितानि सुभाषितानि तु मानवजीवनयात्रायाः सम्बलरूपतयैव जातानि । तेषां कतिपयानि विशिष्टानि निम्नाङ्कितानि सन्ति-
<poem>
(१) ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्चयति ।
(२) विभूषणं मौनमपण्डितानाम् ।
(३) नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ।
(४) विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
(५) मूर्खस्य नास्त्यौषधम् ।
(६) कवयस्त्वर्थं विनापीश्वराः ।
(७) विद्याविहीनः पशुः ।
(८) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।
(९) सत्सङ्गतिः कथय किं न करोति पुंसाम् ।
(१०) न खलु वयस्तेजसो हेतुः ।
(११) प्रारब्धमुत्तमजनाः न परित्यजन्ति ।
(१२) सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।
(१३) सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ।
(१४) स जातो येन जातेन याति वंशः समुन्नतिम् ।
(१५) सर्वे गुणाः काञ्चनमाश्रयन्ति ।
(१६) वाराङ्गनेव नृपनीतिरनेकरूपा ।
(१७) दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् ।
(१८) छायेव मैत्री खलसज्जनानाम् ।
(१९) हेतारमपि जुह्वानं स्पृष्टो दहति पावकः ।
(२०) सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।
(२१) अनुद्धताः सत्पुरुषाः समृद्धिभिः ।
(२२) सन्तः स्वयं परहिते विहिताभियोगाः ।
(२३) विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ।
(२४) न निश्चितार्थाद्विरमन्ति धीराः ।
(२५) शीलं परं भूषणम् ।
(२६) मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।
(२७) न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।
(२८) नास्त्युद्यमसमो बन्धुः ।
(२९) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
(३०) सन्तः सन्तप्यन्ते न दुःखेषु ।
(३१) कर्मायत्तं फलं पुंसाम् ।
(३२) रक्षन्ति पुण्यानि पुराकृतानि ।
(३३) तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यव्रतव्यसनिनः न पुनः प्रतिज्ञाम् ।
</poem>
एतदत्रावश्यमेवावधेयम् । यद्यपि नीतिशतकाभिधानग्रन्थो नीतिप्रकाशानपर एवास्ति । तथापि तस्य स्थितिः शुक्रनीतिचाणक्यनीतिप्रभृतय इव नास्ति । नीतिशतकं वस्तुतो मुक्तकाव्यविद्यायां परिगण्यते । अतस्तस्मिन् काव्यसौन्दर्यमपि राजतेतराम् । तस्मिन् छन्दसामलङ्काराणां विशदः प्रयोगः । स्वल्पकायात्मके ग्रन्थेऽस्मिन् चतुर्दशछन्दसां प्रयोगो जाता येषु शार्दूलविक्रीडितछन्दोऽधिकरूपेण प्रयोगं यातम् । शार्दूलविक्रीडितछन्दः समाश्रित्यैव भर्तृहरिकेस्मिन्नेव श्लोके नैकप्रतिपाद्यविषयाणां समावेशः कृतः ।

नीतिशतकेऽलङ्कारसमावेशोऽपि नितान्तं चारुतरः । भर्तृहरिणा स्वकविताकामिनीमलङ्कर्त्तुं विविधा अलङ्काराः प्रयुक्ताः । अनुप्रासच्छटा तु पदे-पदे नयनगोचरतां याति । साधर्म्यमूलकालङ्कारनिवेशे भर्तृहरिकाव्यचातुर्यं निरतिशयेन प्रकाशते। उपमायाः प्रयोगो बाहुल्येन यातः । उपमेतरालङ्कारेषु रूपकदृष्टान्तातिशयोक्तिसमासोक्तिनिदर्शनाऽर्थान्तरन्यासप्रभृतीनां विद्यमानतया नीतिशतके मनोहरं काव्यसौन्दर्यं निविष्टम्।

एवं विविधविषयकमहनीयनीतिवचनदृष्ट्या नीतिशतकमेकतो स्वपाठकान् सम्यग् दिशानिर्देशं विधत्ते पुनरपरतः स्वकाव्यगतसौन्दर्येण सहृदयजनचित्तचञ्चरीकं रससिक्तञ्च कुरुते । नूनं नीतिशतकमिदं स्वीयमहनीयवैशिष्ट्यात् चिरकालं यावत् प्रभावा भारितं त्स्थास्यतीये ।



[[वर्गः:संस्कृतकाव्यानि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भर्तृहरेः कृतयः]]

वर्तमाना आवृत्तिः ०९:१०, २ नवेम्बर् २०२० इति समये


नीतिशतकम् (Neethishatakam) इत्येषः भर्तृहरिणा रचितः ग्रन्थः । अस्मिन् १०० श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इति सूच्यते । दुर्बलान् दरिद्रान् च उद्दिश्य वदति जीवने सरलता आत्मगौरवञ्च सम्पादनीयमिति। सर्वैः सह स्नेहभावेन व्यवहरणीयमिति उपदिशति । अन्येभ्यः सहाय्यकरणम्, पीडितानां विषये अनुकम्पः, आत्मनिग्रहः, तत्त्वबद्धता च अत्र बहुधा प्रतिपादितः अस्ति । अन्येषां गुणान् श्लाघमानाः अन्येषां दुर्गुणादिविषये मौनाचरणञ्च, स्वस्य उत्तमतायाः गोपनञ्च अवश्यं भाव्यमिति कथयति इदं शतकम् । एते गुणाः अस्मिन् जगति जीवद्भिः एव अभ्यसनीयाः न तु अरण्ये एकान्ते । नीतिशतकस्य मङ्गलश्लोकः -

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥

विषयसूची[सम्पादयतु]

नीतिशतके एते १० विभागाः दृश्यन्ते ।

  1. मूर्खपद्धतिः
  2. विद्वत्पद्धतिः
  3. मानशौर्यपद्धतिः
  4. अर्थपद्धतिः
  5. दुर्जनपद्धतिः
  6. सुजनपद्धतिः
  7. परोपकारपद्धतिः
  8. धैर्यपद्धतिः
  9. दैवपद्धतिः
  10. कर्मपद्धतिः

स्वरूपम्[सम्पादयतु]

संस्कृतवाङ्मये नीतिग्रन्थपरम्पराऽन्यकाव्यविधापरम्परेव नितरां प्राचीना । तस्यामेव परम्परायां भर्तृहरिप्रणीतनीतिशतकमतिहत्त्वमावहति । नीतिशतकं नैतिकव्यावहारिकोपदेशानां भाण्डागारोऽस्ति । वस्तुतः तत् (नीतिशतकम्) दैनन्दिनजीवनोपयोगिनां सुभाषितानामप्यमूल्यो निधिः । नीतिशतके नैकनैतिवसिद्धान्तानां प्रतिपादनमस्ति, ये मानवजीवनस्य प्रतिक्षेत्रं महनीयसाहाय्यरूपां भूमिकां निर्वाहयन्ति । नीतिशतकगता उपदेशाः शाश्वताः सार्वजनीना जातिधर्मसम्प्रदायनिरपेक्षाश्च सन्ति । वस्तुतो जीवनस्याखिलाङ्गानि दृष्टिगतानि विधायैव तेषां रचना जाता । नीतिशतके व्यावहारिकजीवनोपयोगीन्यनेकविधानि सुभाषितानि नयनगोचरतां यान्ति । नीतिशतकस्य वर्णविषयाणां क्षेत्रमतिविशालमस्ति । तस्मिन्, मूर्खस्य, विदुषः, दुर्जनस्य, सुजनस्य, दैवस्य, कर्मणः, शौरस्य, शीलस्य, धनस्य, धैरस्य, परोपकारस्य, विद्यायाः, सत्सङ्गेतश्चाटुकारित्वस्य च नितरामाह्लादजनकानि वर्णनानि समुपलभ्यते । अपरे विषया अपि तस्मिन् वर्ण्यतां याताः सन्ति। नीतिशतकं मुक्तककाव्यविधायां गण्यते, येषामनुशीलनेन भर्तृहरेर्विविधविषयगतज्ञानस्यावबोधो जायते तथा कोऽपि तेषामध्यनेन स्वजीवने महत्सौविध्यं प्राप्तुं शक्नुयात् । कतिपयोदाहरणान्युद्धृत्य कथ्यमिदं विस्तरशः प्रकाशयितुं काम्यते ।

चितानि कानिचन सुभाषितानि[सम्पादयतु]

‘तावत् शोभते मूर्खो यावत् किञ्चिन्न भासते’ लोकश्रुतिं गतामुक्तिमिमां मनसि विधाय भर्तृहरिर्व्यञ्जनया कथयति यद् विधात्रा मूर्खाणां कृते मौनरूपमेतादृशं छादनं निर्मितं यदाश्रयणेन मूर्खः स्वमौढ्याच्छादनं विधातुं समर्थः स्यात् । मौनरूपाच्छादनं स्वाधीनं, गुणयुक्तं विद्यते । पण्डितानां समाजे तु (सभायान्तु) तदाभूषणमिव मूर्खान् शोभयति-
           स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
           विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ।। (नी० श० ७)

अल्पज्ञे मनुष्ये स्ववैदुष्यस्याभिमानो जागर्ति । परन्तु शनैः शनैर्विद्वज्जनसम्पर्कादवाप्ते च विशेषज्ञाने तदीयोऽभिज्ञानः सद्य चूर्णतां व्रजति । यथार्थमिदमधस्तने श्लोके शोभनरूपेण प्रकाशं यातम्-
          यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
            तदा सर्वज्ञोऽस्मीयभवदवलिप्तं मम मनः ।
            यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
            तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ।। (नी० श० ८)
अनेन श्लोकेन सारतत्त्वमिदमनायासेन समक्षमापतति यदज्ञ एव स्वल्पज्ञानविषयेऽभिमानमाश्रयते न विशेषज्ञः ।

मूर्खस्य मूर्खतामपसारयितुं नास्ति कश्चिदुपायो लोक इति तथ्यं प्रकाशयितुं भर्तृहरिर्ब्रूते यत् समेषां रोगाणां शास्त्रोक्तमौषधमस्ति परन्तु मौढ्यरोगस्य नास्ति शास्त्रविहितमौषधम् । विभिन्नदृष्टान्तैर्भर्तृहरिः स्पष्टयति यदग्निना जलस्य, छत्रेण सूर्यातपस्य, मदोन्मत्तगजराजस्य तीक्ष्णाङ्कुशेन, गोगर्दभयोर्दण्डेन, औषधसेवनेन रोगस्य, विभिन्नमन्त्रप्रयोगेण विषस्य निवारणं कर्तुं शक्यते परन्तु मूर्खस्य मौढ्यं दुरीकर्तुं न शक्यते-
        शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
        नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।
        व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
        सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ।। ११ ।।

यः साहित्यं सङ्गीतं कलाञ्च न जानीते स साक्षात्पशुरेव । भर्तृहरिः स्ववर्ण्यं प्रभावकरं विधातुं व्यञ्जनया वृत्त्या कथयति यत् सङ्गीतादिविहीनो नरः श्रृङ्गपुच्छविहीनण् पशुरिव मूल्यहीनोऽस्ति । यद्युच्येत् केनचिद् यत् पशुस्तु तृणमत्ति परन्तु मनुष्यरूपपशुस्तु तृणं नात्ति, भर्तृहरिर्व्यनक्ति यत्तृणाभक्षणमीदृशानां पशूनां (मूर्खाणां) वास्तविकपशूनां कृते हितकरमेव-
       साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
       तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ।। १२ ।।

साधारणतो धनधान्यादिसमृद्धिशालिनो जना (राजानः) आश्रयदातृत्वेन विदुषः प्रत्यभिमानं दधति । ईदृशान् राज्ञः (धनाढ्यजनान्) प्रति भर्तृहरिर्ब्रवीति यद् राजभिः कदापि विद्वांसो नावमन्तव्या यतो हि ते खल्वीदृशविधानां गुप्तं धनं धरन्ते यददृश्यं, कल्याणकरं व्यवस्थायां वर्धनशीलं शाश्वतमक्षुण्णञ्चास्ति-
          कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् ।
          येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ।। १६ ।।

यथा कुपितोऽपि ब्रह्मा हंसस्य नीरक्षीररूपां विवेकशक्तिं कथमपि हर्त्तुं न क्षमस्तथैव कुपितोऽपि राजा विद्वांसं विविधदण्डैर्दण्डयितुं समर्थः स्यात्, परन्तु स विदुषो जन्मजातं वैदुष्यमपहर्त्तुं न क्षमः स्यात्-
         अम्भोजिनीवनविहारविलासमेव
         हंसस्य हन्ति नितरां कुपितो विधाता ।
         न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
         वैदग्ध्यकीर्त्तिमपहर्तुमसौ समर्थः ।। १८ ।।

अधस्तने श्लोके वाणीरूपस्य (विद्यारूपस्य) आभूषणस्य यथार्थतां साधयिंतु भर्तृहरिः प्रतिपादयति यत् केयूराद्याभूषणानि सन्ति तथा तानि न तथा पुरुषं भूषयन्ति यथा वाग्भूषणम्-
        क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। १९ ।।

संस्कृतवाङ्मये सत्सङ्गस्य महत्त्वमङ्गीकृतं तत् प्रशक्तिश्चानेकत्र कृता विभाति । ‘ससर्गजा दोषगुणा भवन्ति’ अर्थात् सत्सङ्गाद् गुणाण् कुसङ्गाच्च दोषा भवन्ति’ इति सदुक्तिमनुसृत्य सत्सङ्गतिरेव मानवकृते हितापहाऽस्ति न कुसङ्गति । मानवैः सदा सत्सङ्गतिरेवाश्रयणीयेति मनसि निधाय नीतिविशारदो भर्तृहरिः सत्सङ्गत्या गुणान् वर्णयति तथाऽन्त तउद्घोषयति यत्सङ्गत्या सर्वाभीष्टं साधयितुं शक्नोति मनुजः । सत्सङ्गतिर्बुद्धेर्जडतां हरति, वाण्यां सत्यं निवेशयति, सम्मानवृद्धिं जनयति, पापं दूरिकरोति, मानसं प्रसादयति, सर्वासु दिक्षु च कीर्तीं विस्तारयति, वस्तुतः सत्सङ्गत्या किमभीष्टमवापुं न शक्यम् ?-
        जाड्यं धियो हरति सिञ्चति वाचि सत्यं
        मानोन्नतिं दिशति पापमपाकरोति ।
        चेतः प्रसादयति दिक्षु तनोति कीर्तिं
        सत्सङ्गतिः कथय किं न करोति पुंसाम् ।। २३ ।।

महाकविना भर्तृहरिणा निम्नाङ्किते श्लोके निर्दिष्टाः कल्याणमार्गा नूनं मानवानां कृते कल्याणप्रदाः । तेषां समाश्रयणेन मनुष्यो निश्चितरूपेण स्वीयं व्यापकं हितं विधातुं समर्थः स्यात् । प्राणिहिंसाया विरतिः, परसम्पत्तिहरणान्निवृत्तिः, सत्यवादित्वं, समये स्वशक्त्यनुसारं दानं, स्त्रीविषयकचर्चायां मौनाश्रयणं, लोभावरोधः, गुरुजनान् प्रति विनयश्च निर्विवादरूपेण मानवकल्याणकरा मार्गाः सन्ति-
        प्राणघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं
        काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
        तृष्णास्त्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
        सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ।। २६ ।।

कार्यसम्पादनदृष्ट्या भर्तृहरिणा मनुष्याणां कृतं श्रेणीत्रियतं निश्चितरूपतया प्रभावकरं युक्तञ्च विद्यते-
        प्रारभ्यते न खलु विघ्नभयेन नीचैः
        प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
        विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
        प्रारभ्य चेत्तमजना न परित्यजन्ति ।। २७ ।।

सज्जनैः समाश्रितं कर्मव्रतं खड्गधारेव तीक्ष्णं वर्तते । तद्व्रतं नूनमतिकठिनम्-
       सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। २८ ।।

महाकविभर्तृहरिर्विभिन्नस्वभाववर्णने नितरां प्रवीणः । श्लोकेऽस्मिन् कुक्कुरस्य हस्तिनश्च माध्यमेन क्षुद्रजनस्य स्वाभिमानिनश्च सहजस्वभाववर्णनं सुतरां मनोहरं यथार्थञ्चास्ति । एकतः श्वा स्वभोजनदातुः समक्षं पुच्छचालनं तच्चरणावपातं तथा धरण्यां पतित्वा निजमुखमुदरञ्च दर्शयति परन्त्वेतद्विपरीतं गजराजः स्वसमक्षं स्वामिद्वारा समानीतं खाद्यपदार्थं गम्भीरं पश्यति’ । शतशोऽभ्यर्थ्यमानञ्च सन् भुङ्क्ते । श्लोकेनानेन चाटुकाराणां स्वाभिमानिनाञ्च स्वभाववर्णनमत्यत्तं प्रभावकरमस्ति-
      लाङ्गुलचालनमधश्चरणावपातं
      भूमौ निपत्य वदनोदरदर्शनं च ।
      श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
      धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ।। ३१ ।।
संसारे धनस्य महिमाऽपूर्वोऽस्ति यतो हि तेनाकुलीनोऽपि कुलीनोऽपण्डितोऽपि पण्डितोऽमर्मज्ञोऽपि मर्मज्ञोऽगुणज्ञोऽपि तथा गुणज्ञो मन्यते जनैः । सर्वे गुणाः काञ्चनामेवाश्रयन्तिअर्थात् सर्वगुणानां मूलं धनमस्ति-
      यस्यास्ति वित्तं स नरः कुलीनः
      स पण्डितः स श्रुतवान् गुणज्ञः ।
      स एव वक्ता स च दर्शनीयः
      सर्वे गुणाः काञ्चनमाश्रयन्ति ।। ४१ ।।

संसारे विकासस्य हेतूनां ज्ञानं यथाऽऽवश्यकन्तथैव विनाशस्य कारणानामपि बोधोऽप्यपेक्षितः । अधोलिखिते श्लोके केन हेतुना को विनश्यति? इति प्रश्नस्य समाधिरत्यन्तं क्षेमकरः । भर्तृहरिमते कुमन्त्रणात् राज्ञः, आसक्तेः संन्यासिनः, लालनात्पुत्रेस्य, अनध्ययनाद् ब्राह्मणस्य, कुपुत्रात् वंशस्य, दुर्जनसेवनात् सदाचारस्य, मदिरापानात् लज्जायाः, अनन्वेक्षणात् कृषेः, परदेशवासात् स्नेहस्य, प्रेमाभावात् मैत्र्याः, अनीतेः समृद्धेः, प्रमादपूर्वकव्ययाद् धनस्य च विनाशो भवति। एकस्मिन्नेव श्लोके बहूनां नाशहेतुत्ववर्णनं नितरां महनीयम्-
      दौर्मन्त्र्यात्रृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
      द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
      ह्रीर्मद्यादनदेक्षाणादपि कृषिः स्नेहः प्रवासाश्रया-
      न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ।। ४२ ।।

संसारे राजनीतेर्नास्ति किञ्चित् सुनिश्चितं रूपम् । विभिन्नावसरेषु तस्याः स्वरूपवैविध्यं दृश्यतेतराम् । भर्तृहरिमते राजनीतिर्वेश्येव परस्परविरोधिस्वरूपं धरते । तस्यां (राजनीत्यां) कदाचित्सत्याश्रयणं, क्वचिद्सत्याश्रयणं, क्वचित्परुषत्वाङ्गीकरणं,क्वचिच्च प्रियवादित्वाङ्गीकरणं, क्वचिद् हिंसायाः क्वचिद् दयायाश्च समाश्रयाणं क्रियते । क्वचिदर्थपरता दृश्यते पुनः क्वचिदुदारत्वं विलोक्यते, क्वचिन्नित्यव्ययता क्वचिच्च धनागमश्च दृष्टिगोचरतां यान्ति-
       सत्याऽनृता च परुषा प्रियवादिनी च
       हिस्रा दयालुरपि चाऽर्थपरा वदान्या ।
       नित्यव्यया प्रचुरनित्यधनागमा च
       वाराङ्गनेव नृपनीतिरनेकरुपा ।। ४७ ।।

निम्नाङ्किते पद्ये भर्तृहरिणा अगुणापेक्षयां लोभस्य, पातकापेक्षया पिशुनतायाः, तपोऽपेक्षया सत्यस्य, तीर्थापेक्षया मनः शुद्धेः, गुणापेक्षया सौजन्यस्य, मण्डनापेक्षया महिम्नः, अन्यधनापेक्षया विद्याधनस्य, तथा मरणापेक्षयाऽपयशसोऽधिक माहात्म्यं प्रख्यापयति । अर्थात् तन्मते लोभः, पिशुनता, सत्यं, मनःशुद्धिः, सौजन्यं, महिमा, विद्याधनम्, अपयशः क्रमशोऽ गुणात्, पातकात्, तपसः, तिर्थात्, गुणात्, मण्डनात्, भौतिकधनात्, मरणाच्चाधिको हानिकरा जायते मानवानां कृते-
      लोभश्चेदगुणेन किं पिशुनता यद्यास्ति किं पातकैः
      सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
      सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
      सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ।। ५५ ।।
 
‘लोके सेवाधर्मो नितान्तकठिनो विद्यते इति सर्वे जानन्ति । तपस्विनामपि कृते सेवाधर्मपरिपालनं दुष्करमेव’ इति तथ्यं प्रकाशं नेतुं कविः प्रभावोत्पादिकां शैलीमाश्रित्य कथयति यत् सेवको मौनाश्रयणात् स्वाम्यादिभिर्मूकः, प्रवचनपाटवाद् वाचालो, बहुभाषी वा, सान्निध्यवासाद् धृष्टो दूरवासाद् बुद्धिहीनः, क्षमाश्रयणात् कायरोऽसहनकरणाद कुलीनश्च मन्यते । सेवकस्यैतादृशी स्थितिः सेवकवृत्त्याश्रयणाद् भवति-
     मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा
     धृष्टः पार्श्वे वसति च तदा दूरतश्चाऽप्रगल्भः ।
     क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
     सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।। ५८ ।।

अधस्तने पद्ये स्वाभाविकगुणानां वर्णनं कीदृशमाह्लादजनकमस्ति । महात्मानो विपत्तौ धैर्यं, अभ्युन्नतौ क्षमां, सभायां वाक्पटुत्वं, युद्धे पराक्रमं, यशः प्राप्यै कामनां, वेदाध्ययन उद्योगञ्च समाश्रयन्ति-
      विपदि धैर्यमथाभ्युदये क्षमा
      सदसि वाक्पटुता युधि विक्रमः ।
      यशसि चाभिरुचिर्व्यसनं श्रुतौ
      प्रकृतिसिद्धमिदं हि महात्मनाम् ।। ६३ ।।

सज्जनाः सत्पात्रेभ्यो गुप्तरूपेण धनं ददति । दत्त्वा च तत्प्रचारं न कुर्वन्ति, गृहमागतमतिथिं सत्कुर्वन्ति, कस्यचित्प्रियं (हितं) विधायापि न तद्वदन्ति, स्वम्प्रत्यन्यकृतमुपकारं सभायामपि निःसङ्कोचं वदन्ति, स्वसम्पत्तिकाले गर्वं न धारयन्ति, परचरित्रवर्णने निन्दां नाश्रयन्ति, एतत्सर्वाणि समुल्लेख्यानि कृत्यानि सज्जना स्वयमेव सम्पादयन्ति । कस्यचित् प्रेरणाभाव एव ते तीक्ष्णखड्गधारेव कठोरं व्रतं पालयन्ति-
    प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
    प्रियं कृत्वा मौनं सदसि कथनं चात्युपकृतेः ।
    अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः
    सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।। ६४ ।।

घनवृक्षसज्जनदृष्टान्तेन परोपकारिणां जनानां सहजस्वभाववर्णनमप्रतिमरूपेणाकर्षकं भव्यञ्चास्तेऽधोलिखिते पद्ये-
   भवन्ति नम्रास्तरवः फलोद्गमै-
   र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
   अनुद्धताः सत्पुरुषाः समृद्धिभिः
   स्वभाव एवैष परोपकारिणाम् ।। ७१ ।।

अधोऽङ्किते श्लोके प्रतिपादितं सन्मित्रस्यातिभव्यं लक्षणं कं न प्रभावयति?-
   पापान्निवारयति योजयते हिताय
   गुह्यं निगूहति गुणान्प्रकटीकरोति ।
   आपद्गतं च न जहाति ददाति काले
   सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ।। ७३ ।।

परहितसम्पादनदृष्ट्या मनुष्याणां (दुर्जनानां) श्रेणीचतुष्टयस्य स्वरूपं ज्ञापयितुं भर्तृहरिर्वदति यत्प्रथमश्रेण्यां ते महापुरुषाः परिगण्यन्ते ये स्वार्थं विहाय परार्थं साधयन्ति । द्वितीयश्रेण्यां त आपतन्ति ये स्वार्थसाधनेन साकं परार्थमपि साधयन्ति । तृतीयश्रेण्याञ्च तेषां मानुषराक्षसानां गणना क्रियते ये खलु स्वार्थाय परार्थं नाशयन्ति । श्रेणीत्रयगतानां नराणां व्यक्तिरिक्ता ईदृशा अपि नराधमाः सन्ति ये निरर्थकमेव परहितं विघ्नन्तितेषां गणना कस्यां श्रेण्यां क्रियेत्? –इति न ज्ञायते । श्लोकेऽस्मिन् कारणमन्तरैव परहितहननशीलानां जनानां दुष्कृतं भृशं गर्हितम्-
   एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
   सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
   तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
   ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ।। ७५ ।।

भर्तृहरिणा ‘विद्याविहीनः पशुः’ इति प्रतिपादयितुं विद्याया अनेकान् गुणान् निम्नाङ्किते श्लोके वर्णयति । तत्रूनं हृदयावर्जकं समाकर्षकञ्च-
विद्या मनुष्यस्य विशेषं रूपमस्ति तच्चातिगुप्तं धनं विद्यते तच्चौरैरपि न हार्यं भवति, विद्या भोगं यशः सौख्यञ्च प्रदत्ते । विद्या गुरूणामपि गुरुरस्ति विदेशगमनकाले विद्या बन्धुवत् साहाय्यं विधत्ते । विद्या समुत्कृष्टको देवोऽस्ति । विद्या राजभिरपि पूज्यते न हि धनं पूज्यते । वस्तुतः एतादृशगुणसम्पन्नया विद्यया हीनो मनुष्यः पशुरेवास्ति-
   विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
   विद्या भोगकरी यशःसुखकरी विद्या गुरुणां गुरुः ।
   विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
   विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ।। २० ।।

‘शीलं परं भूषणमिति कथ्यं स्पष्टं प्रकाशं नेतुं कविः कस्य किमाभूषणमिति वर्णयति पद्येऽस्मिन् । तदनुसारं सौजन्यमैश्वर्यस्य, वाक्यसंयमः शौर्यस्य, शान्तिर्ज्ञानस्य, विनम्रता विद्यायाः (शास्त्रज्ञानस्य), सुपात्रदानं धनस्य, क्रोधविहीनता तपस्यायाः, समर्थप्रभोः क्षमा, धर्मस्य निश्छलत्वं च भूषणं भवति । परन्तु सकलानामैश्वर्यादीनामपिश्रेष्ठमाभूषणं शीलं (सद्वृत्तम्) अस्ति । न केवलमेतावदेव शीलनामकमाभूषणानां सुजनतादीनां कारणभूतमस्ति यतो हि शीलं विना सुजनातादयो नोत्पद्यन्ते-
   ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
   ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
   अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
   सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।। ८३ ।।

‘न्यायपथमारूढा धैर्यशालिनो निन्दां, स्तुतिं, लक्ष्मीगमनागमनं, सद्यो युगान्तरे वा मरणमनपेक्षैवाविचलरूपेण न्यायपथपथिका भवन्ति’ द्रष्टव्यमेतद्विषयं चारुचित्रमधस्तने श्लोके-
    निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
    लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
    अद्यैव वा मरणमस्तु युगान्तरे वा
    न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ।। ८४ ।।

नीतिशतकात् उद्धृताः सूक्तयः[सम्पादयतु]

वस्तुतो नीतिशतकमेतादृशो ग्रन्थोऽस्ति यद्गता उपदेशा जनताजनार्दनस्य हृदयहारतां याताः सन्तो नितान्तं लोकप्रियत्वमवाप्ताः । प्रबुद्धा जनाः पदेपदे नीतिशतकगतानुपदेशानुद्धरन्ति । तदाङ्कितानि सुभाषितानि तु मानवजीवनयात्रायाः सम्बलरूपतयैव जातानि । तेषां कतिपयानि विशिष्टानि निम्नाङ्कितानि सन्ति-

(१) ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्चयति ।
(२) विभूषणं मौनमपण्डितानाम् ।
(३) नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ।
(४) विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
(५) मूर्खस्य नास्त्यौषधम् ।
(६) कवयस्त्वर्थं विनापीश्वराः ।
(७) विद्याविहीनः पशुः ।
(८) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।
(९) सत्सङ्गतिः कथय किं न करोति पुंसाम् ।
(१०) न खलु वयस्तेजसो हेतुः ।
(११) प्रारब्धमुत्तमजनाः न परित्यजन्ति ।
(१२) सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।
(१३) सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ।
(१४) स जातो येन जातेन याति वंशः समुन्नतिम् ।
(१५) सर्वे गुणाः काञ्चनमाश्रयन्ति ।
(१६) वाराङ्गनेव नृपनीतिरनेकरूपा ।
(१७) दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् ।
(१८) छायेव मैत्री खलसज्जनानाम् ।
(१९) हेतारमपि जुह्वानं स्पृष्टो दहति पावकः ।
(२०) सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।
(२१) अनुद्धताः सत्पुरुषाः समृद्धिभिः ।
(२२) सन्तः स्वयं परहिते विहिताभियोगाः ।
(२३) विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ।
(२४) न निश्चितार्थाद्विरमन्ति धीराः ।
(२५) शीलं परं भूषणम् ।
(२६) मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।
(२७) न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।
(२८) नास्त्युद्यमसमो बन्धुः ।
(२९) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
(३०) सन्तः सन्तप्यन्ते न दुःखेषु ।
(३१) कर्मायत्तं फलं पुंसाम् ।
(३२) रक्षन्ति पुण्यानि पुराकृतानि ।
(३३) तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यव्रतव्यसनिनः न पुनः प्रतिज्ञाम् ।

एतदत्रावश्यमेवावधेयम् । यद्यपि नीतिशतकाभिधानग्रन्थो नीतिप्रकाशानपर एवास्ति । तथापि तस्य स्थितिः शुक्रनीतिचाणक्यनीतिप्रभृतय इव नास्ति । नीतिशतकं वस्तुतो मुक्तकाव्यविद्यायां परिगण्यते । अतस्तस्मिन् काव्यसौन्दर्यमपि राजतेतराम् । तस्मिन् छन्दसामलङ्काराणां विशदः प्रयोगः । स्वल्पकायात्मके ग्रन्थेऽस्मिन् चतुर्दशछन्दसां प्रयोगो जाता येषु शार्दूलविक्रीडितछन्दोऽधिकरूपेण प्रयोगं यातम् । शार्दूलविक्रीडितछन्दः समाश्रित्यैव भर्तृहरिकेस्मिन्नेव श्लोके नैकप्रतिपाद्यविषयाणां समावेशः कृतः ।

नीतिशतकेऽलङ्कारसमावेशोऽपि नितान्तं चारुतरः । भर्तृहरिणा स्वकविताकामिनीमलङ्कर्त्तुं विविधा अलङ्काराः प्रयुक्ताः । अनुप्रासच्छटा तु पदे-पदे नयनगोचरतां याति । साधर्म्यमूलकालङ्कारनिवेशे भर्तृहरिकाव्यचातुर्यं निरतिशयेन प्रकाशते। उपमायाः प्रयोगो बाहुल्येन यातः । उपमेतरालङ्कारेषु रूपकदृष्टान्तातिशयोक्तिसमासोक्तिनिदर्शनाऽर्थान्तरन्यासप्रभृतीनां विद्यमानतया नीतिशतके मनोहरं काव्यसौन्दर्यं निविष्टम्।

एवं विविधविषयकमहनीयनीतिवचनदृष्ट्या नीतिशतकमेकतो स्वपाठकान् सम्यग् दिशानिर्देशं विधत्ते पुनरपरतः स्वकाव्यगतसौन्दर्येण सहृदयजनचित्तचञ्चरीकं रससिक्तञ्च कुरुते । नूनं नीतिशतकमिदं स्वीयमहनीयवैशिष्ट्यात् चिरकालं यावत् प्रभावा भारितं त्स्थास्यतीये ।


"https://sa.wikipedia.org/w/index.php?title=नीतिशतकम्&oldid=455878" इत्यस्माद् प्रतिप्राप्तम्