"तत्त्वसाङ्ख्यानम्" इत्यस्य संस्करणे भेदः
No edit summary |
Removing Shri_Madhvacharya.jpg, it has been deleted from Commons by Túrelio because: Copyright violation: Work was claimed by uploader to be public domain due to author age, however no dat |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{ Infobox settlement |
{{ Infobox settlement |
||
| name = मध्वाचार्यः |
| name = मध्वाचार्यः |
||
| image_skyline = |
| image_skyline = |
||
| image_caption = मध्वाचार्यः |
| image_caption = मध्वाचार्यः |
||
}} |
}} |
वर्तमाना आवृत्तिः ०२:१२, ९ मे २०२४ इति समये
मध्वाचार्यः |
---|
तत्त्वसाङ्ख्यानस्य रचयिता मध्वाचार्यः भवति। वेदादि मूलग्रन्थेषु निरूपितानि तत्त्वानि अस्मिन् ग्रन्थे निरूपितानि सन्ति। तत्त्व इत्यस्य प्रमेयः अर्थः। प्रमेयः दिविधः, परतन्त्रम्, स्वतन्त्रञ्च इति। स्वतन्त्रः महाविष्णुः एकः एव भवति। अस्वतन्त्रं द्विविधं भावाभावश्च। अभावः त्रिविधः प्रागभावः, प्रध्वंसाभावः तथा सदाभावः इति । भावः चेतनाचेतनभेदेन द्विविधः। चेतने अपि दुःखसम्पर्करहितः एवं सहितश्च चेतनः भवति। महालक्ष्मी दुःखसम्पर्करहिता चेतना भवति। एषा नित्यमुक्ता भवति। दुःखसम्पर्कयुक्तः चेतनः द्विविधः, मुक्तः तथा संसारि इति। मुक्तः पञ्चविधाः देवताः, ऋषयः, पितरः, चक्रवर्तिणः, मनुष्योत्तमाश्च भवन्ति। संसारिस्तु मुक्तियोग्यः मुक्त्ययोग्यश्च इति। मुक्तियोग्याः देवताः, ऋषयः, पितरः, चक्रवर्तिणः, मनुष्योत्तमाश्च भवन्ति। मुक्त्ययोग्याः नित्यसंसारिणः तामसाश्च भवन्ति। तामसाः अन्धन्तमः प्रविष्ठाः, ये च भविष्यतिकाले प्रविशन्ति ते च भवन्ति। तामसेषु दैत्याः, राक्षसाः, मनुष्याधमाश्च भवन्ति। अचेतनः नित्यः, नित्यानित्यः, अनित्यश्च त्रिविधः। वेदाः, पञ्चाशद्वर्णानि तथा अव्याकृताकाशश्च नित्याः भवन्ति। नित्यानित्याः पुराणानि, कालः, प्रकृतिश्च भवन्ति। अनित्यः संसृष्टासंसृष्टभेदेन द्विधा। असंसृष्टं - पञ्चभूतानि, दशेन्द्रियाणि, पञ्चतन्मात्राणि, बुद्धिमनाहङ्कारमहत्तत्त्वानि। संसृष्टम् – ब्रह्माण्डम्।