"कृष्णामृतमहार्णवः" इत्यस्य संस्करणे भेदः
No edit summary |
Removing Shri_Madhvacharya.jpg, it has been deleted from Commons by Túrelio because: Copyright violation: Work was claimed by uploader to be public domain due to author age, however no dat |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{Infobox settlement |
{{Infobox settlement |
||
|name = कृष्णामृतमहार्णवः |
|name = कृष्णामृतमहार्णवः |
||
|image_skyline = |
|image_skyline = |
||
|image_caption = कृष्णामृतमहार्णवः |
|image_caption = कृष्णामृतमहार्णवः |
||
}} |
}} |
वर्तमाना आवृत्तिः ०२:१२, ९ मे २०२४ इति समये
कृष्णामृतमहार्णवः |
---|
कृष्णामृतमहार्णवस्य ग्रन्थस्य कर्ता मध्वाचार्यः भवति। कोक्कडग्रामे यडपाडित्ताय नाम भक्तः आसीत्। तस्य प्रार्थनाम् अनुसृत्य श्रीमध्वाचार्यः एनं ग्रन्थं रचितवान् इति कथा शृयते।
क्षेत्राग्र्यं त्रिभुवनवैधनाथनाथं प्रस्थाय प्रचुरतरान्तरः प्रभावी।
श्रीकृष्णामृतपरमार्णवाभिधानं चक्रेसद्वचनततिं स्वभक्तभूत्यै॥
अर्जुनाय श्रीकृष्णेन उपदिष्टा गीता यथा सज्जनानाम् उद्धरणार्थम् आविर्भूता तथैव अयं ग्रन्थोपि अध्यात्म क्षेत्रे अमृततरङ्गिणी इव राराजते।
तापत्रयेण सन्तप्तं यदेतदखिलं जगत्।
वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम्॥
संसारविषपानेन ये मृताः प्राणिनो भुवि।
अमृताय स्मृतस्तेषां कृष्णामृतमहार्णवः॥
अनेन श्लोकेन अस्य ग्रन्थस्य आरम्भः भवति। अस्मिन ग्रन्थे अर्चनम्, स्मरणम्, ध्यानम्, कीर्तनम्, कथनम् तथा श्रवणादीनां विषये स्पष्टतया निरूपितवान् अस्ति। एतेषां षट् साधनानां महत्वादि तथा विधिविधानादि विषयेषु स्पष्टतया निरूपितवान् अस्ति। अस्मिन् ग्रन्थे विद्यमानाः श्लोकाः विष्णुपुराणादिषु विध्यमानाः श्लोकाः भवन्ति। एकादशी उपवासस्य महत्वं च निरूपितम् अस्ति। एकदशी उपवासनिरूपणार्थं ५० अधिकाः श्लोकाः विद्यन्ते। द्वादशी आचरणविषये विशिष्य श्रवणद्वादशी विषये अस्मिन् ग्रन्थे निरूपणं विद्यते। अस्मिन् ग्रन्थे विद्यमानाः श्लोकाः अधिकतया अनुष्टुप् छन्दसि एव विद्यन्ते। श्रवणस्य महत्त्वम् अस्मिन् ग्रन्थे एवं मध्वाचार्यः निरूपितवान् , तद्यथा-
श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम्।
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति॥ इति।
- अस्य ग्रन्थस्य व्याख्यानकाराः,
- स्मृतिमुक्तावलीकृष्णाचार्यः
- ताम्रपर्णी श्रीनिवासाचार्यः
- उमर्जीप्रह्लादकृष्णाचार्यः