(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"एतच्छ्रुत्वा वचनं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
:'''एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।'''
:'''एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।'''
:'''नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥'''
:'''नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥'''

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।


==पदच्छेदः==
==पदच्छेदः==

०६:२७, २८ अक्टोबर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः

सञ्जय उचाच -

एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।

पदच्छेदः

एतत् शृत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूय एवा आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

अन्वयः

किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।

पदार्थः

किरीटी = अर्जुनः
केशवस्य = श्रीकृष्णस्य
एतत् = इदम्
वचनम् = वाक्यम्
श्रुत्वा = आकर्ण्य
कृताञ्जलिः = मुकुलितकरः
वेपमानः = कम्पमानः
भीतभीतः = भयसहितः
कृष्णम् = श्रीकृष्णम्
नमस्कृत्वा = प्रणम्य
सगद्गदम् = निरुद्धकण्ठम्
भूयः एव = पुनरपि
प्रणम्य = नमस्कृत्वा
आह = उवाच ।

तात्पर्यम्

श्रीकृष्णस्य एतत् वाक्यं श्रुत्वा अर्जुनः मुकुलितकरः कम्पमानः भयसहितश्च सन् कृष्णं नमस्कृत्य गद्गदितकण्ठः पुनरपि प्रणम्य अवोचत् ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=एतच्छ्रुत्वा_वचनं...&oldid=283833" इत्यस्माद् प्रतिप्राप्तम्